SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ च-मांसानि च तत्र भगवतच्छिन्नपूर्वाणि एकदा कायमवष्टभ्य-आक्रम्य तथा नानाप्रकाराः प्रतिकूलपरीषहाश्च भगवन्तमलुश्चिषुः, अथवा पांसुनाऽवकीर्णवन्त इति ॥ किं च-भगवन्तमूर्ध्वमुत्क्षिप्य भूमौ 'निहतवन्तः' क्षिप्तवन्तः, अथवा 'आसनात्' गोदोहिकोत्कुटुकासनवीरासनादिकात् 'स्खलितवन्तो' निपातितवन्तः, भगवांस्तु पुनर्युत्सृष्टकायः परीषहसहनं प्रति प्रणत आसीत् , परीपहोपसर्गकृतं दुःखं सहत इति दुःखसहो भगवान्, नास्य दुःखचिकित्साप्रतिज्ञा विद्यत इत्यप्रतिज्ञः ॥ कथं दुःखसहो भगवानित्येतदृष्टान्तद्वारेण दर्शयितुमाह सूरो सङ्गामसीसे वा संवुडे तत्थ से महावीरे । पडिसेवमाणे फरुसाइं अचले भ गवं रीयित्था ॥ १३ ॥ एस विही अणुकन्तो० जाव रीयं ॥ १४ ॥ तिबेमि ९-३॥ यथा हि संग्रामशिरसि 'शूरः' अक्षोभ्यः परैः कुन्तादिभिर्भिद्यमानोऽपि वर्मणा संवृताङ्गो न भङ्गमुपयातीति, एवं स भगवान्महावीरः 'तत्र' लाढादिजनपदे परीषहानीकतुद्यमानोऽपि प्रतिसेवमानश्च 'परुषान्' दुःखविशेषान् मेरुरिवाचलो-निष्प्रकम्पो धृत्या संवृताङ्गो भगवान् ‘रीयते स्म' ज्ञानदर्शनचारित्रात्मके मोक्षाध्वनि पराक्रमते स्मेति ॥ उद्देशकार्थमुपसंजिहीर्घराह-एस विही'त्यादि पूर्ववद् । उपधानश्रुताध्ययनस्य तृतीयोद्देशकः परिसमाप्तः॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy