________________
श्रीआचाराङ्गवृत्तिः (शी०) ॥१५॥
मनुष्याश्चतुर्भेदास्तद्यथा-सम्मूर्च्छनजाः कर्मभूमिजा अकर्मभूमिजाः अन्तरद्वीपजाश्चेति, तथा तिर्यञ्चो द्वीन्द्रियास्त्री- ||3|| अध्ययन |न्द्रियाश्चतुरिन्द्रियाः पश्चेन्द्रियाश्चेति चतुर्की, कायाः पृथिव्यप्तेजोवायवश्चत्वारः, तथाऽयमूलस्कन्धपर्वबीजाश्चत्वार एव,
उद्देशकः१ एते षोडश देवनारकप्रक्षेपादष्टादश, एभिर्भावैर्भवनाजीवो व्यपदिश्यत इति भावदिगष्टादशभेदेति ॥ अत्र च सामान्यदिग्ग्रहणेऽपि यस्यां दिशि जीवानामविगानेन गत्यागती सष्टे सर्वत्र सम्भवतस्तयैवेहाधिकार इति तामेव नियुक्तिकृत्साक्षाद्दर्शयति, भावदिकाविनाभाविनी सामर्थ्यादधिकृतैव, यतस्तदर्थमन्या दिशश्चिन्त्यन्त इत्यत आहपण्णवगदिसट्ठारस भावदिसाओवि तत्तिया चेव । इकिकं विंधेजा हवंति अट्ठारसट्ठारा॥ ६१॥ पण्णवगदिसाए पुण अहिगारो एत्थ होइ णायव्वो। जीवाण पुग्गलाण य एयासु गयागई अत्थि ॥१२॥ प्रज्ञापकापेक्षया अष्टादशभेदा दिशः, अत्र च भावदिशोऽपि तावत्प्रमाणा एव प्रत्येक सम्भवन्तीत्यतः एकैकां प्रज्ञापकदिशं भावदिगष्टादशकेन 'विन्ध्येत्' ताडयेद्, अतोऽष्टादशाष्टादशकाः, ते च संख्यया त्रीणि शतानि चतुर्विशत्यधिकानि भवन्तीति, एतच्चोपलक्षणं तापदिगादावपि यथासम्भवमायोजनीयमिति । क्षेत्रदिशि तु चतसृष्वेव महादिक्षु सम्भवो न | विदिगादिषु, तासामेकप्रदेशिकत्वाच्चतुष्पदेशिकत्वाच्चेति गाथाद्वयार्थः ॥ अयं च दिक्संयोगकलाप: 'अण्णयरीओ दिसाओ आगओ अहमंसी'त्यनेन परिगृहीतः, सूत्रावयवार्थश्चायम्-इह दिग्ग्रहणात् प्रज्ञापकदिशश्चतस्रः पूर्वादिका ऊर्छ
|॥१५॥ |घोदिशौ च परिगृह्यन्ते, भावदिशस्त्वष्टादशापि, अनुदिग्ग्रहणात्तु प्रज्ञापकविदिशो द्वादशेति, तत्रासंज्ञिनां नैषोऽवबो