________________
चरमसमये तु मनुष्यगतिपश्चेन्द्रियजातित्रसवादरपर्याप्तकसुभगादेययशःकीर्तितीर्थकरत्वान्यतरवेदनीयायुष्कोच्चैर्गोत्राण्येता द्वादश तीर्थकृत् केषांचिन्मतेनानुपूर्वीसहितास्त्रयोदश अतीर्थकृच्च द्वादशैकादश वा क्षपयति, अशेषकर्मक्षयसमनन्तरमेव चास्पर्शवद्गत्या ऐकान्तिकात्यन्तिकानाबाधलक्षणं सुखमनुभवन् सिद्धा(ब्याख्यं लोकायमुपैतीत्ययं गाथातात्पर्यार्थः॥ साम्प्रतमुपसंहरस्तीर्थकरासेवनतः प्ररोचनतां दर्शयितुमाह
एवं तु समणुचिन्नं वीरवरेणं महाणुभावणं । जं अणुचरित्तु धीरा सिवमचलं जन्ति निवाणं ॥ २८४ ॥ | 'एवम्' उक्तविधिना भावोपधानं-ज्ञानादि तपो वा वीरवर्द्धमानस्वामिना स्वतोऽनुष्ठितमतोऽन्येनापि मुमुक्षुणैतदनुष्ठेयमिति गाथार्थः ॥ समाप्ता ब्रह्मचर्याध्ययननियुक्तिः ॥ साम्प्रतं सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्
अहासुयं वइस्सामि जहा से समणे भगवं उठाए । संखाए तंसि हेमंते अहुणो पव्व इए रीइत्था ॥ १॥ णो चेविमेण वत्थेण पिहिस्सामि तंसि हेमंते । से पारए आवकहाए, एयं खु अणुधम्मियं तस्स ॥२॥ चत्तारि साहिए मासे, बहवे पाणजाइया आगम्म । अभिरुज्झ कायं विहरिंसु, आरुसिया णं तत्थ हिंसिंसु ॥३॥ संवच्छरं साहियं मासं जं न रिक्कासि वत्थगं भगवं । अचेलए तओ चाइ तं वोसिज्ज वत्थमणगारे ॥४॥