________________
श्रीआचाराङ्गवृत्तिः
(शी० )
॥ ३०० ॥
दण्डं करोति, पुनर्द्वितीयसमये तिरश्चीनमालोकान्तात्काय प्रमाणमेवौदारिक कार्म्मणशरीरयोगी कपाटवत्कपाटं विधत्ते, तृतीयसमये त्वपरदितिरश्चीनमेव कार्म्मणशरीरयोगी मन्धानवन्मन्थानं करोति, अनुश्रेणिगमनाच्च लोकस्य प्रायशो बहु पूरितं भवति, ततश्चतुर्थसमये कार्मणकाययोगेनैव मन्धान्तरालव्यापनात्सह निष्कुटैर्लोकः पूरितो भवति, पुनरनेनैव क्रमेण पश्चानुपूर्व्या समुद्घातावस्थां चतुर्भिरेव समयैरुपसंहरंस्तद्व्यापारवांस्तत्तद्योगो भवति, केवलं षष्ठसमये मन्थानमुपसंहरन्नौदारिकमिश्रयोगी स्यादिति, तदेवं केवली समुद्घातं संहृत्य प्रत्यर्प्य च फलकादिकं ततो योगनिरोधं विधत्ते, तद्यथा- पूर्व मनोयोगं बादरं निरुणद्धि, पुनर्वाग्योगं काययोगं च वादरमेवेति, पुनरनेनैव क्रमेण सूक्ष्ममनोयोगं निरुणद्धि, ततः सूक्ष्मवाग्योगं निरुणद्धि, ततः सूक्ष्मकाययोगं निरुन्धन् सूक्ष्मक्रियमप्रतिपाति तृतीयं शुक्लध्यानभेदमारोहति, तन्निरोधे च व्युपरतक्रियमनिवर्त्ति चतुर्थी शुक्लध्यानमारोहति, तदारूढश्चायोगिकेवलिभावमुपगतः सन्नन्तर्मुहूर्त्त यावत्कालम जघन्योत्कृष्टमास्ते, तत्र चासौ येषां कर्म्मणामुदयो नास्ति तानि स्थितिक्षयेण क्षपयन् वेद्यमानासु चापरमकृतिषु सङ्क्रामयन् क्षपयंश्च तावद्गतो यावद्दिचरमसमयं तत्र च द्विचरमसमये देवगति सहगताः कर्म्मप्रकृतीः क्षपयति, ताश्चेमा ः– देवगतिस्तदानुपूर्वी वैक्रियाहारकशरीरतदङ्गोपाङ्गचतुष्टयमेतद्बन्धनसङ्घाताविति च, तथा तत्रैवापरा इमाः क्षपयति, तद्यथा - औदारिकतैजस कार्मणानि शरीराणि एतद्बन्धनानि त्रीणि सङ्घातांश्च षटू संस्थानानि पटू संहननानि औदारिकशरीराङ्गोपाङ्गं वर्णगन्धरसस्पर्शा मनुष्यानुपूर्व्यगुरुलधूपघातपराघातोच्छ्रासप्रशस्ता प्रशस्त विहायोगतयस्तथाऽपर्या - तकप्रत्येकस्थिरास्थिरशुभाशुभसुभगादुर्भगसुस्वरदुःस्वरानादेयायशः कीर्त्तिनिर्माणानि तथा नीचैर्गोत्रमन्यतरद्वेदनीयमिति,
उपधा० ९
उद्देशकः १
॥ ३०० ॥