________________
श्रीआचाराङ्गवृत्तिः
(शी०)
॥ २८८ ॥
यादिति दर्शयितुमाह-यस्य भिक्षोरेवंभूतोऽभिग्रहविशेषो भवति, तद्यथा - अहं च खलु तेन यथाऽतिरिक्तेन - आत्मपरिभोगाधिकेन यथैषणीयेन यत्तेषां प्रतिमाप्रतिपन्नानामेपणीयमुक्तम्, तद्यथा - पञ्चसु प्राभृतिकासु अग्रहः द्वयोरभिग्रहः तथा यथापरिगृहीतेनात्मार्थं स्वीकृतेनाशनादिना निर्जरामभिकाङ्क्षय साधर्मिकस्य वैयावृत्यं कुर्याद्, यद्यपि ते प्रतिमाप्रतिपन्नत्वादेकत्र न भुञ्जते तथाप्येकाभिग्रहापादितानुष्ठानत्वात्साम्भोगका भण्यन्ते, अतस्तस्य समनोज्ञस्य करणाय - | उपकरणार्थ वैयावृत्यं कुर्यामित्येवंभूतमभिग्रहं कश्चिद्गृह्णाति । तथाऽपरं दर्शयितुमाह - वाशब्दः पूर्वस्मात्पक्षान्तरमाहअपिशब्दः पुनःशब्दार्थे, अहं वा पुनस्तेन यथातिरिक्तेन यथैषणीयेन यथापरिगृहीतेनाशनेन ४ निर्जरामभिकाङ्क्ष्य | साधम्मिकैः क्रियमाणं वैयावृत्त्यं स्वादयिष्यामि -अभिलषिष्यामि, यो वाऽन्यः साधम्मिकोऽन्यस्य करोति तं चानुमोदयिष्यामि यथा सुष्ठु भवता कृतमेवंभूतया वाचा, तथा कायेन च प्रसन्नदृष्टिमुखेन तथा मनसा चेति, किमित्येवं क| रोति ? - लाघविकमित्यादि, गतार्थं ॥ तदेवमन्यतराभिग्रहवान् भिक्षुरचेलः सचेलो वा शरीरपीडायां सत्यामसत्यां वा आयुःशेषतामवगम्योद्यतमरणं विदध्यादिति दर्शयितुमाह
जस्स णं भिक्खुस्स एवं भवइ - से गिलामि खलु अहं इमम्मि समए इमं सरीरगं अणुपुत्रेणं परिवहित्तए, से अणुपुव्वेणं आहारं संवहिजा २ कसाए पयणुए किच्चा समाहियच्चे फलगावयट्ठी उट्ठाय भिक्खू अभिनिव्वुडच्चे अणुपविसित्ता गामं वा नगरं
विमो० ८
उद्देशः७
॥ २८८ ॥