________________
श्रीआचा
राङ्गवृत्तिः (शी०)
अध्ययन उद्देशकर
॥१३॥
नाम ठवणा दविए खित्ते तावे य पण्णवग भावे। एस दिसानिक्खेवो सत्तविहो होइ णायब्बो॥४०॥ नामस्थापनाद्रव्यक्षेत्रतापप्रज्ञापकभावरूपः सप्तधा दिग्निक्षेपो ज्ञातव्यः, तत्र सचित्तादेव्यस्य दिगित्यभिधानं नामदिक्, चित्रलिखितजम्बूद्वीपादेर्दिग्विभागस्थापनं स्थापनादिक् । द्रव्यदिग्निक्षेपार्थमाह
तेरसपएसियं खलु तावइएसुं भवे पएसेसुं। जं दव्वं ओगाढं जहण्णयं तं दसदिसागं॥४१॥ द्रव्यदिग् द्वेधा-आगमतो नोआगमतश्च, आगमतो ज्ञाताऽनुपयुक्तो, नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिका त्वियम्-त्रयोदशप्रदेशिकं द्रव्यमाश्रित्य या प्रवृत्ता, खलुरवधारणे, त्रयोदशप्रदेशिकमेव दिक्, न पुनईशप्रदेशिकं यत् कैश्चिदुक्तमिति, प्रदेशा:-परमाणवस्तैर्निष्पादितं कार्यद्रव्यं तावत्स्वेव क्षेत्रप्रदेशेष्ववगाढं जघन्यं द्रव्यमाश्रित्य दशदिविभागपरिकल्पनातो द्रव्यदिगियमिति । तत्स्थापना (२)। त्रिबाहुक नवप्रदेशिकमभिलिख्य चतसृषु विश्वेकैकगृहवृद्धिः कार्या ॥ क्षेत्रदिशमाह
अट्ठ पएसो रुयगो तिरियं लोयस्स मज्झयारंमि । एस पभवो दिसाणं एसेव भवे अणुदिसाणं ॥४२॥ तिर्यग्लोकमध्ये रसप्रभापृथिव्या उपरि बहुमध्यदेशे मेज़न्तद्वौं सर्वक्षुल्लकपतरौ तयोरुपरितनस्य चत्वारः प्रदेशा गोस्तनाकारसंस्थाना अधस्तनस्यापि चत्वारस्तथाभूता एवेत्येषोऽष्टाकाशप्रदेशात्मकश्चतुरस्रो रुचको दिशामनुदिशां च प्रभव-उसत्तिस्थानमिति । स्थापना (३)। आसामभिधानान्याहु
इंदग्गेई जम्मा य नेरुती वारुणी य वायव्वा । सोमा ईसाणावि य विमला य तमा य बोद्धव्वा ॥४३॥
RECECARRANGA