________________
खा. सू. ३
द्रष्टव्याः, ओघसंज्ञा तु अव्यक्तोपयोगरूपा वल्लिवितानारोहणादिलिङ्गा ज्ञानावरणीयाल्पक्षयोपशमसमुत्था द्रष्टव्येति । इह पुनर्ज्ञानसंज्ञयाऽधिकारो, यतः सूत्रे सैव निषिद्धा 'इह एकेषां नो संज्ञा ज्ञानम् -अवबोधो भवती'ति ॥ १ ॥ प्रतिषिद्धज्ञानविशेषावगमार्थमाह सूत्रम् -
तंजा - पुरत्थिमाओ वा दिसाओ आगओ अहमंसि, दाहिणाओ वा दिसाओ आगओ अहमंसि, पञ्च्चत्थिमाओ वा दिसाओ आगओ अहमंसि, उत्तराओ वा दिसाओ आगओ अहमंसि, उड्डाओ वा दिसाओ आगओ अहमंसि, अहोदिसाओ वा आगओ अहमंसि, अण्णयरीओ वा दिसाओ अणुदिसाओ वा आगओ अहमंसि, एवमेगेसिं णो णायं भवति (सू०२ )
“तंजहेत्यादि णो णायं भवतीति यावत्" तद्यथेति प्रतिज्ञातार्थोदाहरणं, 'पुरत्थिमाउ'त्ति प्राकृतशैल्या मागधदेशीभाषानुवृत्त्या पूर्वस्या दिशोऽभिधायकात् पुरत्थिमशब्दात्सञ्चम्यन्तात्तसा निर्देशः, वाशब्द उत्तरपक्षापेक्षया विकल्पार्थः, यथा लोके भोक्तव्यं वा शयितव्यं वेति, एवं पूर्वस्या वा दक्षिणस्या वेति । दिशतीति दिकू, अतिसृजति व्यपदिशति | द्रव्यं द्रव्यभागं वेति भावः ॥ तां निर्युक्तिकृन्निक्षेतुमाह