________________
विमो..
श्रीआचाराङ्गवृत्तिः (शी०) ॥२८२॥
नादिसंसारपर्यटनाद् विरतःसावद्यानुष्ठानात् शोभनाः समाहृता-गृहीता लेश्याः-अन्तःकरणवृत्तयस्तैजसीप्रभृतयो वा येन स सुसमाहृतलेश्यः, एवम्भूतः सन् पूर्वगृहीतप्रतिज्ञापालनासमों ग्लानभावोपगतस्तपसा रोगातड्केन वा प्रतिज्ञालोपमकुर्वन् शरीरपरित्यागाय भक्तप्रत्याख्यानं कुर्यात्, 'तत्रापि' भक्तपरिज्ञायामपि 'तस्य' कालपर्यायेणानागतायामपि कालपर्याय एव निष्पादितशिष्यस्य संलिखितदेहस्य यः कालपर्यायो-मृत्योरवसरोऽत्रापि ग्लानावसरेऽसावेव कालपर्याय इति, कर्मनिर्जराया उभयत्र समानत्वात् , स भिक्षुस्तत्र-लानतयाऽनशनविधाने व्यन्तिकारकः-कर्मक्षयविधायीति । उद्देशकार्थमुपसञ्जिहीर्घराह-सर्व पूर्ववद् । विमोक्षाध्ययनस्य पञ्चमोद्देशकः परिसमाप्तः॥
उक्तः पञ्चमोद्देशकः, साम्प्रतं षष्ठ आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके ग्लानतया भक्तप्रत्याख्यानमुक्तम् , इह धृतिसंहननादिवलोपेत एकत्वभावनां भावयन्निङ्गितमरणं कुर्यादित्येतत्प्रतिपाद्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादौ सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्
जे भिक्खू एगेण वत्थेण परिसिए पायबिईएण, तस्स णं नो एवं भवइ-बिइयं वत्थं जाइस्सामि, से अहेसणिज्जं वत्थं जाइज्जा अहापरिग्गहियं वत्थं धारिजा जाव गिम्हे ।
॥24
२८२॥