SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ श्रीआचा । इह त्रीणि वयांसि-युवा मध्यमवया वृद्धश्चेति, तत्र मध्यमवयाः परिपक्कबुद्धित्वाद्धार्ह इत्यादौ दर्शयति-मध्यमेन विमोर राङ्गवृत्तिः 18||वयसाऽप्येके सम्बुध्यमानाः धर्मचरणाय सम्यगुत्थिताः समुत्थिता इति, सत्यपि प्रथमचरमवयसोरुत्थाने यतो बाहुल्या(शी०) द्योग्यत्वाच्च प्रायो विनिवृत्तभोगकुतूहल इति निष्प्रत्यूहधर्माधिकारीति मध्यमवयोग्रहणं । कथं सम्बुद्यमानाः समुत्थिता उद्देशकः३ इत्याह-इह त्रिविधाः सम्बुध्यमानका भवन्ति, तद्यथा-स्वयंबुद्धाः प्रत्येकबुद्धाः बुद्धबोधिताश्च, तत्र बुद्धबोधितेनेहाधिकार ॥२७४॥ इति दर्शयति-'मेधावी' मर्यादाव्यवस्थितः 'पण्डितानां तीर्थकृदादीनां वचनं' हिताहितप्राप्तिपरिहारप्रवर्तक 'श्रुत्वा' आकर्ण्य पूर्व पश्चात् 'निशम्य' अवधार्य समतामालम्बेत,किमिति ?-यतः समतया-माध्यस्थ्येनार्यैः-तीर्थकृद्भिर्धर्म:-श्रुतचारित्राख्यः 'प्रवेदितः' आदौ प्रकर्षेण वा कथित इति, ते च मध्यमे वयसि श्रुत्वा धर्म सम्बुध्यमानाः समुत्थिताः सन्तः किं| कुर्युरित्याह-ते निष्क्रान्ताः मोक्षमभि-प्रस्थिताः कामभोगानभिकाङ्क्षन्तः तथा प्राणिनोऽनतिपातयन्तः परिग्रहमपरिगृनहन्तः, आद्यन्तयोHहणे मध्योपादानमपि द्रष्टव्यम् , तथा (तो) मृषावादमवदन्त इत्याद्यपि वाच्यम् , एवम्भूताः स्वदेहेऽप्य-13 ममत्वाः 'सव्वावंति'त्ति सर्वस्मिन्नपि लोके, चः समुच्चये स च भिन्नक्रमः, 'णम्' इति वाक्यालङ्कारे, नो परिग्रहवन्तश्च भवन्तीतियावत्, किं च-प्राणिनो दण्डयतीति दण्डः-परितापकारी तं दण्डं प्राणिषु प्राणिभ्यो वा 'निधाय' क्षिप्वा त्यक्त्वा 'पाप' पापोपादानं 'कर्म' अष्टादशभेदभिन्नं तत् 'अकुर्वाणः' अनाचरन्नेष महान् न विद्यते ग्रन्थः सबाह्याभ्यन्तरोऽस्येत्यग्रन्थः 'व्याख्यातः' तीर्थकरगणधरादिभिः प्रतिपादित इति । कश्चैवम्भूतः स्यादित्याह-ओजः' अद्वितीयो ला॥२७४॥ || रागद्वेषरहितः 'द्युतिमान्' संयमो मोक्षो वा तस्य 'खेदज्ञो' निपुणो देवलोकेऽप्युपपातं च्यवनं च ज्ञात्वा सर्वस्थानानि
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy