________________
श्रीआचाराङ्गवृत्तिः (शी०) ॥२७१॥
'चेएमि'त्ति ददामि तुभ्यं वितरामि, एवमशनादिकमुद्दिश्य ब्रूयात् , तथा 'आवसथं वा' युष्मदाश्रयं समुच्छृणोमि-आ- विमो०८ देरारभ्यापूर्वं करोमि संस्कारं वा करोमीत्येवं प्राञ्जलिरवनतोत्तमाङ्गः सन् अशनादिना निमन्त्रयेत्, यथा-भुड्न्क्ष्वाशना
उद्देशकः२ दिकं मत्संस्कृतावसथे वसेत्यादि, द्विवचनबहुवचने अप्यायोज्ये । साधुना तु सूत्रार्थविशारदेनादीनमनस्केन प्रतिषेधितव्यमित्याह-आयुष्मन्! श्रमण! भिक्षो! तं गृहपतिं समनसं सवयसमन्यथाभूतं वा प्रत्याचक्षीत, कथमिति चेद्दर्शयति -यथा आयुष्मन्! भो गृहपते! न खलु तवैवंभूतं वचनमहमाद्रिये, खलुशब्दोऽपिशब्दार्थे, स च समुच्चये, नापि तवैतद्वचनं 'परिजानामि' आसेवनपरिज्ञानेन परिविदधेऽहमित्यर्थः, यस्त्वं मम कृतेऽशनादि प्राण्युपमर्दैन विदधासि यावदावसथसमुच्छ्रयं विदधासि, भो आयुष्मन् गृहपते ! विरतोऽहमेवम्भूतादनुष्ठानात् , कथम् ?-एतस्य-भवदुपन्यस्तस्याकरणतयेत्यतो भवदीयमभ्युपगमं न जानेऽहमिति ॥ तदेवं प्रसह्याशनादिसंस्कारप्रतिषेधः प्रतिपादितो, यदि पुनः कश्चिद्विदितसाध्वभिप्रायः प्रच्छन्नमेव विदध्यात्तदपि कुतश्चिदुपलभ्य प्रतिषेधयेदित्याह
से भिक्खु परिकमिज वा जाव हुरत्था वा कहिंचि विहरमाणं तं भिक्खु उवसंकमित्तु गाहावई आयगयाए पेहाए असणं वा ४ वत्थं वा ४ जाव आहटु चेएइ आवसहं वा समुस्सिणाइ भिक्खू परिघासेउं, तं च भिक्खू जाणिज्जा सहसम्मइयाए परवागरणेणं
18॥२७१॥ अन्नेसिं वा सुच्चा-अयं खलु गाहावई मम अटाए असणं वा ४ वत्थं वा ४ जाव