________________
ज्ञाय' ज्ञात्वा 'मेधावी' मर्यादावान् , तथा पूर्वोक्तं दण्डमन्यद्वा मृषावादादिकं दण्डाद्विभेतीति दण्डभीः सन् नो 'दण्ड प्राण्युपमर्दादिकं समारभेथाः, करणत्रिकयोगत्रिकेण परिहरेदिति, इतिरधिकारपरिसमाप्तौ ब्रवीमीति पूर्ववत् । विमोक्षाध्ययने प्रथमोद्देशक इति ॥
KESARKAKAKARSANKA
उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशकेऽनघसंयमप्रतिपालनाय |कुशीलपरित्यागोऽभिहितः, स चैतावताऽकल्पनीयपरित्यागमृते न सम्पूर्णतामियाद् अतोऽकल्पनीयपरित्यागार्थमिदमुपक्रम्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम्
से भिक्खू परिकमिज वा चिटिज वा निसीइज वा तुयट्टिज वा सुसाणंसि वा सुन्नागारंसि वा गिरिगुहंसि वा रुक्खमूलंसि वा कुंभाराययणंसि वा हुरत्था वा कहिंचि विहरमाणं तं भिक्खुं उवसंकमित्तु गाहावई बूया-आउसंतो समणा! अहं खलु तव अट्राए असणं वा पाणं वा खाइमं वा साइमं वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुच्छणं वा पाणाइं भूयाइं जीवाई सत्ताई समारब्भ समुद्दिस्स कीयं पामिच्चं