________________
जीवाजीवपरिज्ञानानामिवनवासिनो मूलकन्दाहारा मतपापा अज्ञानिनो समय
तोऽत एष मम विवेको व्याख्यातः, तत्कथमहं सर्वाप्रतिषिद्धास्रवद्वारैः संभाषणमपि करिष्ये !, आस्ता तावद्वाद इत्ये|वमसमनुज्ञविवेकं करोतीति, अत्राह चोदक:-कथं तीर्थिकाः सम्मतपापा अज्ञानिनो मिथ्यादृष्टयोऽचरित्रिणोऽतपस्विनो वेति !, तथाहि-तेऽप्यकृष्टभूमिवनवासिनो मूलकन्दाहारा वृक्षादिनिवासिनश्चेति, अत्राहाचार्यः-नारण्यवासादिना धर्मः, अपि तु जीवाजीवपरिज्ञानात् तत्पूर्वकानुष्ठानाच्च, तच्च तेषां नास्तीत्यतोऽसमनोज्ञास्ते इति । किं च-सदसद्विवे|किनो हि धर्मः, स च ग्रामे वा स्यात् अथवाऽरण्ये, नैवाधारो ग्रामो नैवारण्यं धर्मनिमित्तं, यतो भगवता न वसिममितरद्वाऽऽश्रित्य धर्मः प्रवेदितः, अपि तु जीवादितत्त्वपरिज्ञानात् सम्यगनुष्ठानाच्च, अतस्तं धर्ममाजानीत 'प्रवेदितं' कथितं 'माहणेण'त्ति भगवता, किम्भूतेन ?-'मतिमता' मननं-सर्वपदार्थपरिज्ञानं मतिस्तद्वता मतिमता केवलिने-| त्यर्थः । किंभूतो धर्मः प्रवेदित इत्याह-'यामा' व्रतविशेषाः त्रय उदाहृताः, तद्यथा-प्राणातिपातो मृपावादः परिग्रहश्चेति, अदत्तादानमैथुनयोः परिग्रह एवान्तर्भावात् त्रयग्रहणं, यदिवा यामा-वयोविशेषाः, .तद्यथा-अष्टवर्षादात्रिंशतः प्रथमस्तत ऊर्द्धमाषष्टेः द्वितीयस्तत ऊर्द्ध तृतीय इति अतिबालवृद्धयोयुदासो, यदिवा यम्यते-उपरम्यते संसारभ्रमणादेभिरिति यामाः-ज्ञानदर्शनचारित्राणीति ते 'उदाहृता' व्याख्याताः, यदि नामैवं ततः किमित्याह-'येषु' अवस्थाविशेषेषु ज्ञानादिषु वा इमे देशार्या अपाकृतहेयधा वा सम्बुध्यमानाः सन्तः समुत्थिताः, के ?-ये 'निर्वृताः' क्रोद्याद्यपगमेन शीतीभूताः पापेषु कर्मसु 'अनिदाना' निदानरहिताः ते 'व्याख्याताः' प्रतिपादिता इति ॥ क्व च पुनः पापकर्मस्वनिदाना इत्यत आह