________________
है भवति' संज्ञानं संज्ञा स्मृतिरवबोध इत्यनर्थान्तरं, सा नो जायत इत्यर्थः, उक्त पदार्थः, पदविग्रहस्य तु सामासिकपदा-151
भावादप्रकटनम् । इदानी चालना-ननु चाकारादिकप्रतिषेधकलघुशब्दसंभवे सति किमर्थ नोशब्देन प्रतिषेधः इति !, अत्र प्रत्यवस्था, सत्यमेवं, किंतु प्रेक्षापूर्वकारितया नोशब्दोपादानं, सा चेयम्-अन्येन प्रतिषेधेन सर्वनिषेधः स्याद्, यथा न घटोऽघट इति चोके सर्वात्मना घटनिषेधः, स च नेष्यते, यतः प्रज्ञापनायां दश संज्ञाः सर्वप्राणिनामभिहितास्तासां 31 सर्वासां प्रतिषेधः प्राप्नोतीतिकृत्वा, ताश्चेमाः-"कइ णं भंते ! सण्णाओ पणत्ताओ?, गोयमा! दस सण्णाओ पण्णत्ताओ, |तंजहा-आहारसण्णा भयसण्णा मेहुणसण्णा परिग्गहसण्णा कोहसण्णा माणसण्णा मायासण्णा लोभसण्णा ओहसण्णा लोगस|ण्ण"त्ति, आसां च प्रतिषेधे स्पष्टो दोषः, अतोनोशब्देन प्रतिषेधनमकारि, यतोऽयं सर्वनिषेधवाची देशनिषेधवाचीच, तथा
हि-नोघट इत्युक्ते यथा घटाभावमात्रं प्रतीयते, तथा प्रकरणादिप्रंसक्तस्य विधानं, स पुनर्विधीयमानः प्रतिषेध्यावयवो || ग्रीवादिः प्रतिषेध्यादन्यो वा पटादिः प्रतीयत इति, तथा चोक्तम्-"प्रतिषेधयति समस्तं प्रसक्तमर्थं च जगति नोशब्दः ।
स पुनस्तदवयवो वा तस्मादर्थान्तरं वा स्याद् ॥१॥” इति, एवमिहापि न सर्वसंज्ञानिषेधः, अपितु विशिष्टसंज्ञानिषेधो, ययाऽऽत्मादिपदार्थस्वरूपं गत्यागत्यादिकं ज्ञायते तस्या निषेध इति ॥ साम्प्रतं नियुक्तिकृत्सूत्रावयवनिक्षेपार्थमाह
, कति भदन्त ! संसाः प्रज्ञप्ताः १, गौतम! दश संज्ञाः प्रज्ञप्ताः, तद्यथा-आहारसंज्ञा भयसंज्ञा मैथुनसंज्ञा परिप्रहसंज्ञा क्रोधसंज्ञा मानसंझा मायासंझा लोभसंज्ञा ओघसंज्ञा लोकसंज्ञा.
२० घटाभावमात्रं प्रतीयते अर्थप्रसकनिषेधेन चाप्रसक्तस्य प्र.