________________
श्रीआचाराङ्गवृत्तिः (शी०)
॥ ११ ॥
॥ सुयं मे आउ ! तेणं भगवया एवमक्खायं - इहमेगेसिं णो सण्णा भवइ ( सू० १ )
सुत्तं अडहि य गुणेहिं उववेयं ॥ १ ॥' इत्यादि, तच्चेदं सूत्रम् -'सुयं मे आउसं! तेणं भगवया एवमक्खायं - इहमेगेसिं णो सण्णा भवति' अस्य संहितादिक्रमेण व्याख्या -संहितोच्चारितैव, पदच्छेदस्त्वयम् - श्रुतं मया आयुष्मन् ! तेन भगवता एवमाख्यातम्-इह एकेषां नो संज्ञा भवति । एकं तिङन्तं शेषाणि सुबन्तानि, गतः सपदच्छेदः सूत्रानुगमः, साम्प्रतं सूत्रपदार्थः समुन्नीयते-भगवान् सुधर्म्मस्वामी जंबूनाम्न इदमाचष्टे यथा-'श्रुतम्' आकर्णितमवगतमवधारितमितियावद्, | अनेन स्वमनीषिकाव्युदासो, 'मये' ति साक्षान्न पुनः पारम्पर्येण 'आयुष्मन्नि'ति जात्यादिगुणसंभवेऽपि दीर्घायुष्कत्वगुगोपादानं दीर्घायुरविच्छेदेन शिष्योपदेशप्रदायको यथा स्यात्, इहाचारस्य व्याचिख्यासितत्वात्तदर्थस्य च तीर्थकृत्प्रणीतत्वादिति सामर्थ्यप्रापितं तेनेति तीर्थकरमाह, यदि वा - आमृशता भगवत्पादारविन्दम्, अनेन विनय आवेदितो भवति, आवसता वा तदन्तिक इत्यनेन गुरुकुलवासः कर्त्तव्य इत्यावेदितं भवति एतच्चार्थद्वयं 'आमुसंतेण आवसंतेणेत्येतत्पाठान्तरमाश्रित्यावगन्तव्यमिति, 'भगवते 'ति भगः - ऐश्वर्य्यादिषडर्थात्मकः सोऽस्यास्तीति भगवान् तेन, 'एव' मिति वक्ष्यमाणविधिना 'आख्यात' मित्यनेन कृतकत्वन्युदासेनार्थरूपतया आगमस्य नित्यत्वमाह, 'इहे'ति क्षेत्रे प्रवचने आचारे शस्त्रपरिज्ञायां वा आख्यातमितिसंबन्धो, यदि वा - 'इहे 'ति संसारे 'एकेषां' ज्ञानावरणीयावृतानां प्राणिनां 'नो संज्ञा
१ चूर्ष्यभिप्रायेण द्वितीयसूत्रावतरणमेतत्.
२ पत्तेयं पत्तेयं (गणहरा) रिस्सेहिं पञ्जुवासिज्जमाणा एवं भणति 'सुयं मे० (इति चूर्णिः ).
अध्ययनं १
दशकः १
॥ ११ ॥