________________
राद्धो भवे-आरब्धो भवेत् तेन यन्मरणं तव्याघातिमं, तत्र वृद्धवादायात आदेशो-दृष्टान्तः, यथा-तोसलिनामाचार्यो महिष्याऽऽरब्धश्चतुर्विधाहारपरित्यागेन मरणमभ्युपगतवान् एतद्व्याघातिम मरणमिति गाथाऽक्षरार्थो, भावार्थस्तु कथानकादवसेयः, तच्चेदम्-तोसलिनामाचार्योऽरण्यमहिषीभिः प्रारब्धः, तोसलिदेशे वा बढयो महिष्यः सम्भवन्ति, ताभिश्च कदाचिदेकः साधुरटव्यन्तर्वारब्धः, स च ताभिः क्षुद्यमानोऽनिर्वाहमवगम्य चतुर्विधाहारं प्रत्याख्यातवानिति ॥ साम्प्रतमव्याघातिमप्रतिपादनेच्छयाऽऽह
अणुपुश्विगमाएसो पव्वज्जासुत्तअत्थकरणं च । वीसजिओ(य)निन्तो मुको तिविहस्स नीयस्स ॥ २६८॥
आनुपूर्वी-क्रमस्तं गच्छतीत्यानुपूर्वीगः, कोऽसौ?-आदेशो-वृद्धवादः, स चाय, तद्यथा-पूर्वमुत्थितस्य प्रव्रज्यादानं, || ततः सूत्रकरणं पुनरर्थग्रहणं, ततस्तदुभयनिर्मातः सुपात्रनिक्षिप्तसूत्रार्थः गुर्वोदिनाऽनुज्ञातोऽभ्युद्यतो मरणत्रिकान्यतराय 'निर्यन्' निर्गच्छन् त्रिविधस्याहारोपधिशय्याख्यस्य नित्यपरिभोगान्नित्यस्य मुक्तो भवति, तत्र यद्याचार्यस्तदा शिष्यान्निप्पाद्याऽपरमाचार्य विधायोत्सर्गेण द्वादशसांवत्सरिक्या संलेखनया संलिख्य ततो गच्छविसर्जितो गच्छानुज्ञया स्वस्थापिताचार्यविसर्जितो वा अभ्युद्यतमरणायापराचार्यान्तिकमियात्, एवमुपाध्यायः प्रवर्तिः स्थविरो गणावच्छेदकः सामान्यसाधुर्वाऽऽचार्यविसर्जितः कृतसंलेखनापरिका भक्तपरिज्ञादिकं मरणमभ्युपेयात्, तत्रापि भावसंलेखनां कुर्यात् ॥ द्रव्यसलेखनायां तु केवलायां दोषसम्भवादित्याह-॥ पडिचोइओ य कुविओ रणोजह तिक्ख सीयला आणा तंबोले य विवेगो घणया जा पसाओ य ॥२६९॥