________________
श्रीआचाराङ्गवृत्तिः (शी०)
न
॥२६२॥
सपरक्कममाएसो जह मरणं होइ अजवइराणं । पायवगमणं च तहा एयं सपरक्कम मरणं ॥२६५॥ . विमो०८ सह पराक्रमेण वर्त्तत इति सपराक्रम, किं तत्१-मरणं आदिश्यते-इत्यादेशः आचार्यपारम्पर्यश्रुत्यायातो वृद्धवादो
उद्देशका यमैतिह्यमाचक्षते, स आदेशो 'यथे'त्युदाहरणोपन्यासार्थः, यथैतत्तथाऽन्यदप्यनया दिशा द्रष्टव्यं, 'आर्यवैरावैरस्वामिनो
यथा तेषां मरणमभूत् तथा पादपोपगमनं च, एतच्च सपराक्रमं मरणमन्यत्राप्यायोज्यमिति गाथार्थः॥ भावार्थस्तु कथाजानकादवसेयः, तच्च प्रसिद्धमेव यथाऽऽर्यवैरैर्विस्मृतकर्णाहितशृङ्गबेरैः प्रमादादवगतासन्नमृत्युभिः सपराक्रमैरेव रथावतशिखरिणि पादपोपगमनमकारीति । साम्प्रतमपराक्रमं दर्शयितुमाह
अपरक्कममाएसो जह मरणं होइ उदहिनामाणं । पाओवगमेऽवि तहा एयं अपरक्कम मरणं ॥२६६ ॥ l न विद्यते पराक्रमः-सामर्थ्यमस्मिन्नित्यपराक्रम, किं तत्?-मरणं, तच्च यथा जवाबलपरिक्षीणानामुदधिनाम्नाम्-आर्यसमुह द्राणां मरणमभूद्, अयमादेशो-दृष्टान्तो वृद्धवादायात इति, पादपोपगमनेऽपि तथैवादेशं जानीयाद् यथा पादपोपगमनेन तेषां मरणमभूदिति,एतद्-अपराक्रमं मरणं यदार्यसमुद्राणां सञ्जातमेवमन्यत्राप्यायोज्यमिति गाथाऽक्षरार्थः॥ भावार्थस्तु कथानकादवसेयः, तच्चेदम्-आर्यसमुद्रा आचार्याः प्रकृतिकृशा एवासन् , पश्चाच्च तैर्जङ्घाबलपरिक्षीणैः शरीराल्लाभमन|पेक्ष्य तत्तित्यक्षुभिर्गच्छस्थैरेवानशनं विधाय प्रतिश्रयैकदेशे निर्झरिमं पादपोपगमनमकारि ॥ साम्प्रतं व्याघातिममाहवाघाइयमाएसो अवरद्धो हुज्ज अन्नतरएणं । तोसलि महिसीइ हओ एयं वाघाइयं मरणं ॥ २६७ ॥
॥२६२॥ विशेषेणाघातो व्याघात:-सिंहादिकृतः शरीरविनाशस्तेन निवृत्तं तत्र वा भवं व्याघातिमं, कश्चित्सिंहाद्यन्यतरेणाप