SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (सी०) धुता. उद्देशका ॥२४६॥ त्वादल्पाहारत्वाच प्रायशः खलस्वेनैवाहारः परिणमति, न रसत्वेन, कारणाभावाच प्रतन्वेव शोणितं तत्तनुत्वान्मांसमपीति ततो मेदादीन्यपि, यदिवा प्रायशो रूक्षं वातलं भवति, वातप्रधानस्य च प्रतनुतैव मांसशोणितयोर, अचेलतया च तृणस्पर्शादिप्रादुर्भावेन शरीरोपतापात् प्रतनुके मांसशोणिते भवत इति सम्बन्धः, 'संसारश्रेणी' संसारावतरणी रागद्वेषकषायसंततिस्तां क्षान्त्यादिना विश्रेणी कृत्वा, तथा 'परिज्ञाय' ज्ञात्वा च समत्वभावनया, तद्यथा-जिनकल्पिकः कश्चिदेककल्पधारी द्वौ त्रीन् वा विभर्ति, स्थविरकल्पिको वा मासार्द्धमासक्षपका तथा विकृष्टाविकृष्टतपश्चारी प्रत्यहं भोजी कूरगडुको वा, एते सर्वेऽपि तीर्धकृदचनानुसारतः परस्परनिन्दया समत्वदर्शिन इति, उकं च-"जोवि दुवत्थतिवत्थो एगेण अचेलगो व संथरइ । न हु ते हीलेंति परं सब्वेवि हु ते जिणाणाए ॥१॥" तथा जिनकल्पिकः प्रतिमाप्रतिपन्नो वा कश्चित्कदाचित् षडपि मासानात्मकल्पेन भिक्षां न लभेत तथाऽप्यसौ कूरगडुकमपि यथौदनमुण्डस्त्वमित्येवं न हीलयति । तदेवं समत्वदृष्टिप्रज्ञया विश्रेणीकृत्य 'एष' उक्तलक्षणो मुनिः तीर्णः संसारसागरं एष एव मुक्तः सर्वसङ्गेभ्यो विरतः सर्वसावद्यानुष्ठानेभ्यो व्याख्यातो नापर इति । ब्रवीमीतिशब्दौ पूर्ववत् ॥ तदेवं संसारश्रेणी विश्लेषयित्वा यः संसारसागरतीर्णवत्तीर्णो मुक्तवन्मुक्को विरतो व्याख्यातः, तं च तथाभूतं किमरतिरभिभवेदुत नेति, अचिन्त्यसामर्थ्यात् कर्मणोऽभिभवेदित्येतदेवाह विरयं भिक्खू रीयंतं चिरराओसियं अरई तत्थ किं विधारए?, संघेमाणे समुट्ठिए, . ॥२४६॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy