SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः धुता०६ उद्देशका (शी०) ॥२४५॥ ज्ञात्वेत्यर्थः, कथमिति चेत् तदुच्यते-'सर्वत' इति द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतः आहारोपकरणादौ क्षेत्रतः सर्वत्र ग्रामादौ कालतोऽहनि रात्रौ वा दुर्भिक्षादौ वा सर्वात्मनेति भावतः कृत्रिमकल्काद्यभावेन, तथा 'सम्यक्त्व'मिति प्रशस्तं शोभनं एक सङ्गतं वा तत्त्वं सम्यक्त्वं, यदुक्तम्-"प्रशस्तः शोभनश्चैव, एकः सङ्गत एव च । इत्येतैरुप AT सृष्टस्तु, भावः सम्यक्त्वमुच्यते ॥ १॥" तदेवम्भूतं सम्यक्त्वमेव समत्वमेव वा 'समभिजानीयात्' सम्यगाभिमुख्येन जानीयात्-परिच्छिन्द्यात्, तथाहि-अचेलोऽप्येकचेलादिकं नावमन्यते, यत उक्तम्-"जोऽवि दुवथतिवत्थो एगेण अचेलगो व संथरइ । ण हु ते हीलंति परं सव्वेऽवि य ते जिणाणाए ॥१॥" तथा-"जे खलु विसरिसकप्पा संघयणधियादिकारणं पप्प । णऽवमन्नइ ण य हीणं अप्पाणं मन्नई तेहिं ॥ २॥ सब्वेऽवि जिणाणाए जहाविहिं कम्मखवणअहाए । विहरंति उजया खलु सम्म अभिजाणई एवं ॥३॥" ति, यदिवा तदेव लाघवमभिसमेत्य सर्वतो द्रव्यादिना सर्वात्मना नामादिना सम्यक्त्वमेव सम्यगभिजानीयात्, तीर्थकरगणधरोपदेशात् सम्यकुर्यादिति तात्पर्यार्थः । एतच्च नाशक्यानुधानं ज्वरहरतक्षकचूडालङ्काररत्नोपदेशवद्वतः केवलमुपन्यस्यते, अपि त्वन्यैर्बहुभिश्चिरकालमासेवितमित्येतदर्शयितुमाह-एवम्' इत्यचेलतया पर्युषितानां तृणादिस्पर्शानधिसहमानानां तेषां महावीराणां सकललोकचमत्कृतिकारिणां 'चिररात्रं' प्रभूतकालं यावजीवमित्यर्थः, तदेव विशेषतो दर्शयति-'पूर्वाणि' प्रभूतानि वर्षाणि 'रीयमाणानां' १ योऽपि द्विवस्त्रनिवस्त्र एकेन अचेलको वा निर्वहति । नैव हीलयति परं सर्वेऽपि च ते जिनाज्ञायाम् ॥१॥ ये खलु बिसदृशकल्पाः संहननभूत्यादिकारणं प्राप्य । नावमन्यते न च हीनमात्मानं मन्यते तेभ्यः ॥२॥ सर्वेऽपि जिनाज्ञायां यथाविधि कर्मक्षपणार्य । विहान्त्युद्यताः खळ सम्यगभिजानात्येवम् ॥ ३॥ ॥२४५॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy