SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ AGRA शय्याशायिनं तृणानां स्पर्शाः परुषास्तृणैर्वा जनिताः स्पर्शा:-दुःखविशेषास्तुणस्पर्शास्ते कदाचित् स्पृशन्ति, तांश्च सम्यम् अदीनमनस्कोऽतिसहत इति सम्बन्धः, तथा शीतस्पर्शाः स्पृशन्ति-उपतापयन्ति, तेजः-उष्णस्तत्स्पर्शाः स्पृशन्ति, तथा देशमशकस्पर्शाः स्पृशन्ति, एतेषां तु परीपहाणामेकतरेऽविरुद्धा दंशमशकतॄणस्पर्शादयः प्रादुर्भवेयुः, शीतोष्णादिपरीपहाणां वा परस्परविरुद्धानामन्यतरे प्रादुष्प्युः, प्रत्येकं बहुवचननिर्देशश्च तीव्रमन्दमध्यमावस्थासंसूचकः, इत्येतदेव दर्शयति-विरूपं-बीभत्सं मनोऽनाहादि विविधं वा मन्दादिभेदादूपं-स्वरूपं येषां ते विरूपरूपाः, के ते?-'सर्शाः' दुःख-18 विशेषाः, तदापादकास्तृणादिस्पर्शा वा, तान् सम्यकरणेनापध्यानरहितोऽधिसहते, कोऽसौ?-'अचेलः' अपगतचेलोअल्पचेलो वा अचलनस्वरूपो वा सम्यक्तितिक्षते, किमभिसन्ध्य परीषहानधिसहत इत्यत आह-लघो वो लाघवं, | द्रव्यतो भावतश्च, द्रव्यतो छुपकरणलाघवं भावतः कर्मलाघवं 'आगमयन्' अवगमयन् बुध्यमान इतियावद् अधिसहते परीपहोपसर्गानिति, नागार्जुनीयास्तु पठन्ति-"एवं खलु से उवगरणलापवियं तवं कम्मक्खयकारणं करेई" 'एवम् उतक्रमेण भावलाघवार्थमुपकरणलाघवं तपश्च करोति इति भावार्थः । किं च से तस्योपकरणलाघवेन कर्मलापवमागमयतः कर्मलाघवेन चोपकरणलाघवमागमयतस्तृणादिस्पर्शानधिसहमानस्य 'तपः' कायक्लेशरूपतया बाह्यमभिसमन्वागतं भवति-सम्यग् आभिमुख्येन सोढं भवति । एतच्च न मयोच्यते इत्येतदर्शयितुमाह-'यथा' येन प्रकारेण 'इद'मिति यदुक्तं वक्ष्यमाणं चैतद्भगवता-वीरवर्द्धमानस्वामिना प्रकर्षणादौ वा वेदितं प्रवेदितमिति, यदि नाम भगवता ६ प्रवेदितं ततः किमित्याह-तद्-उपकरणलाघवमाहारलाघवं वा 'अभिसमेत्य' ज्ञात्वा एवकारोऽवधारणे, तदेव लाघवं
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy