SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ | निदेसं नाइवढेजा मेहावी,सुपडिलेहिया सव्वओ सव्वप्पणा सम्मं समभिण्णाय, इह आरामंपरिणाय अल्लीनेगुते जहासि तिबेमि। आरामो परिव्यए निट्ठियट्टी वीरे आगमेण सया परक्कम ( सू० १६८ ) निर्दिश्यत इति निर्देशः-तीर्थकराद्युपदेशस्तं नातिवर्तेत 'मेधावी' मर्यादावानिति । किं कृत्वा निर्देश नातिवर्तेतेत्यत आह-सुष्टु प्रत्युपेक्ष्य हेयोपादेयतया तीर्थिकवादान् सर्वज्ञवादं च 'सर्वतः' सर्वैः प्रकारैर्द्रव्यक्षेत्रकालभावरूपैः सर्वात्मनासामान्यविशेषात्मकतया पदार्थान् पर्यालोच्य सहसन्मत्यादित्रिकेण परिच्छिद्य सदाऽऽचार्यनिर्देशवी तीर्थिकप्रवादनिराकरणं कुर्यात्, किं च कृत्येत्यत आह-सम्यगेव स्वपरतीर्थिकवादान् ‘समभिज्ञाय' बुद्धा ततो निराकरणं कुर्यात् । किं च-'इह' अस्मिन् मनुष्यलोके आरमणमारामो रतिरित्यर्थः, स चारामः परमार्थचिन्तायामात्यन्तिकैकान्तिकरतिरूपः संयमः तमासेवनपरिज्ञया परिज्ञाय आलीनो गुप्तश्च 'परिव्रजेत्' संयमानुष्ठाने विहरेत् , किंभूत इत्याह-निष्ठितो-४ मोक्षस्तेनार्थी यदिवा निष्ठितः-परिसमाप्तः अर्थः-प्रयोजनं यस्य स निष्ठितार्थः 'वीर' कर्मविदारणसहिष्णुः सन् 'आगमेन' सर्वज्ञप्रणीताचारादिना 'सदा' सर्वकालं 'पराक्रमेथाः' कर्मरिपून् प्रति मोक्षाध्वनि वा गच्छेः । इत्यधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् । किमर्थं पुनः पौनःपुन्येनोपदेशदानमित्याह उद्धं सोया अहे सोया, तिरियं सोया वियाहिया । एए सोया विअक्खाया, जेहिं संगंति पासह ॥१॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy