SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) उद्देशक ॥२२८॥ तथा च सति पूर्वकालक्षणावस्थायित्वमेव कारणत्वम्, एवं च सर्व सर्वस्य कारणं स्यात् , सर्वस्य पूर्वकालक्षणावस्थायित्वाद्यत्किश्चिदेतदिति, किं च-“यजातमात्रमेव प्रध्वस्तं तस्य का क्रिया कुम्भे। नोत्पन्नमात्रभन्ने क्षिप्तं सन्तिष्ठते वारि ॥१॥ कर्तरि जातविनष्टे धर्माधर्मक्रिया न सम्भवति । तदभावे बन्धः को बन्धाभावे च को मोक्षः ॥२॥" त्यादि । बार्हस्पत्यानां तु भूतवादेनात्मपुण्यपापपरलोकाभाववादिनां निर्मर्यादतया जनतातिगानां न्यक्कारपदव्याधानमनुत्तरमेवोत्तरमिति । अपि च-"अब्रह्मचर्यरक्तैर्मूढैः परदारघर्षणाभिरतैः । मायेन्द्रजालविषवत्प्रवर्तितमसत्किमप्येतत् ॥१॥" तथा "मिथ्या च दृष्टिर्भवदुःखधात्री, मिथ्यामतिश्चापि विवेकशून्या । धर्माय येषां पुरुषाधमानां, तेषामधर्मो भुवि कीदृशोऽन्यः ? ॥२॥” इत्यनया दिशा सर्वेऽपि तीर्थिकवादाः सर्वज्ञवादमनुश्रित्य निराकार्या इति स्थितं । तन्निराकरणं च सर्वज्ञप्रवादं निराकार्य च तीर्थिकप्रवादमेभित्रिभिः प्रकारैर्जानीयादित्याह-मननं मतिः-ज्ञानं ज्ञानावरणीयक्षयक्षयोपशमान्यतरसद्भावानन्तरमेव सहसा-तत्क्षणमेव मत्या प्रातिभबोधावध्यादिज्ञानेन परिच्छिन्द्यात् सह वा ज्ञानेन ज्ञेयं सच्छोभनया मिथ्यात्वकलङ्काङ्करहितया मत्याऽवगच्छेत् , स्वपरावभासकत्वान्मतेरिति, कदाचिसरव्याकरणेनाप्यवगच्छेत् परः-तीर्थकृत्तस्य तेन वा व्याकरणं-यथावस्थितार्थप्रज्ञापनम् आगमः परव्याकरणं तेन वा जामीयात् , तथाऽप्यनवगमेऽन्येषामाचार्यादीनां अन्तिके श्रुत्वा यथावस्थितवस्तुसद्भावमवधारयेत् ॥ अवधार्य च किं कुर्या-| दित्याह ॥२२८॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy