SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ आचार्यः प्रथमभङ्गपतितः पञ्चविधाचारसमन्वितोऽष्टविधाचार्यसम्पदुपेतः, [ तद्यथा - " आधार सुअ सरीरे वयणे वायण मई पओगमई । एए सुसंपया खलु अठ्ठमिआ सङ्गहपरिन्ना ॥ १ ॥ " ] षट्त्रिशद्गुणगणाधारो हृदकल्पो निर्मलज्ञानप्रतिपूर्णः समे भूभाग इति संसक्तादिदोषरहिते सुखविहारे क्षेत्रे समो वा ज्ञानदर्शनचारित्राख्यो मोक्षमार्गः उपशमवतां तत्र तिष्ठति-समध्यास्ते, किंभूतः ? - 'उपशान्तरजा' उपशान्तमोहनीय इति, किं कुर्वन् ? - जीवनिकायान् रक्षन् स्वतः परतश्च सदुपदेशदानतो नरकादिपाताद्वेति, 'स्रोतोमध्यगत' इत्यनेन प्रथमभङ्गपतितं स्थविराचार्यमाह, तस्य हि श्रुतार्थदानग्रहणसद्भावात् स्रोतोमध्यगतत्वम्, स च किम्भूतः स्यादित्याह - 'सः' आचार्योऽक्षोभ्यइदकल्पः 'सर्वतः सर्वप्रकारतयेन्द्रियनोइन्द्रियरूपया गुहया गुप्त इत्येतत्पश्य आचार्यव्यतिरेकेणान्येऽप्येवम्भूता बहवः साधवः सम्भवन्ती| त्येतन्निर्दिदिक्षुराह - इह मनुष्यलोके पूर्वव्यावर्णितस्वरूपाः 'महर्षयो' महामुनयः सन्ति, इत्येतत्पश्य, किम्भूतास्ते महर्षय इत्यत आह-न केवलमाचार्या हदकल्पा ये चान्ये साधवस्तेऽपि इदकल्पाः, किम्भूताः १-प्रकर्षेण ज्ञायतेऽनेनेति प्र| ज्ञानं स्वपरावभासकत्वादागमस्तद्वन्तः प्रज्ञानवन्तः आगमस्य वेत्तार इत्यर्थः, तज्ज्ञा अपि मोहोदयात् कचिद्धेतुदाहरणासम्भवे ज्ञेयगहनतया संशयानाः न सम्यक् श्रद्धानं विदध्युरित्यतो विशिनष्टि – 'प्रबुद्धाः' प्रकर्षेण यथैव तीर्थकृदाह तथैवावगततत्त्वाः प्रबुद्धाः, तथाभूता अपि कर्म्मगुरुत्वान्न सावद्यानुष्ठानविरतिं कुर्युरित्यतो विशेषयति- 'आरम्भोपरताः' आरम्भः - सावद्यो योगस्तस्मादुपरता आरम्भोपरताः, एतच्च न मदुपरोधेन ग्राह्यम् अपि तु स्वतं एव कु १ आचारः श्रुतं शरीरं वचनं वाचना मतिः प्रयोगमतिः । एताः सुसंपदः खलु अष्टमी संप्रहृपरिज्ञा ॥ १
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy