SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥२२॥ दाप्रवाहहूदवत् , अपरस्तु परिगलत्स्रोताः नो पर्यागलस्रोताः, पद्मदवत् , तथा परो नो परिगलस्रोताः पर्यागल-1|| लोक०५ स्रोताश्च, लवणोदधिवत्, अपरस्तु नो परिगलत्स्रोता नो पर्यागलस्रोताच, मनुष्यलोकाहिः समुद्रवत् । तत्राचार्यः उद्देशकः५ श्रुतमङ्गीकृत्य प्रथमभङ्गपतितः, श्रुतस्य दानग्रहणसद्भावात्, साम्परायिककापेक्षया तु द्वितीयभङ्गपतितः, कषायोदयाभावेन ग्रहणाभावात्तपःकायोत्सर्गादिना क्षपणोपपत्तेश्चेति, आलोचनामङ्गीकृत्य तृतीयभङ्गापतितः, आलोचनाया अप्रतिश्रावित्वात् , कुमार्ग प्रति चतुर्थभङ्गपतितः, कुमार्गस्य हि प्रवेशनिर्गमाभावात्, यदिवा धम्मिभेदेन भङ्गा योज्यन्ते-तत्र स्थविरकल्पिकाचार्याः प्रथमभङ्गपतिताः, द्वितीयभङ्गपतितस्तीर्थकृत् , तृतीयभङ्गस्थस्त्वहालन्दिकः, सच क्वचिदर्थापरिसमाप्तावाचार्यादेनिर्णयसद्भावात् , प्रत्येकबुद्धास्तूभयाभावाच्चतुर्थभङ्गस्था इति, इह पुनः प्रथमभङ्गपतितेनोभयसद्भाविनाऽधिकारः, तथाभूतस्यैवायं ददृष्टान्तः, स च इदो निर्मलजलस्य 'प्रतिपूर्णो' जलजः सर्वनुजैरुपशोभितः समे भूभागे विद्यमानोदकनिर्गमप्रवेशो नित्यमेव तिष्ठति, न कदाचिच्छोषमुपयाति, सुखोत्तारावतारसमन्वितः, उपशान्तम्-अपगतं रजः कालुप्यापादकं यस्य स तथा, नानाविधांश्च यादसां गणान् संरक्षन् सह वा यादोगणैरात्मानमारक्षन्-प्रतिपालयन सारक्षन् तिष्ठतीत्येषा क्रिया प्रकृतैव । यथा चासौ ह्रदस्तथाऽऽचार्योऽपीति दर्शयति-सः'। ARRORAGAR Cl॥२२॥ १ उदकाः करो यावतकालेन शुष्यति तज्जघन्य लन्दं तत आरभ्योत्कृष्ट पश्चरात्रिंदिवलक्षणं लन्द, तदत्र गृह्यते, उत्कृष्टलन्दस्यानतिकमेण चरन्तीति यथालन्दिकाः, पचको गणोऽमुं कल्प प्रतिपद्यते, मासकल्पक्षेत्रं च गृहपटिदाराभिः पतिवाधीभिर्जिनकल्पिकवत्परिकल्पयन्ति. २ पर्यागलस्रोतोवदर्यापेक्षया ग्राहकत्वात् तृतीयभापतित इति गम्यम्.
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy