________________
श्रीआचाराङ्गवृत्तिः (शी०)
॥२१६॥
मदुपदेशवर्तिनो मा भवतु, आगमानुसारितया सदा गच्छान्तर्वती भवेत्यर्थः । सुधर्मस्वाम्याह-एतत्' पूर्वोतं तत् लोक०५ 'कुशलस्य' श्रीवर्द्धमानस्वामिनो 'दर्शनम्' अभिप्रायो यथाऽव्यक्तस्यैकचरस्य दोषाः सततमाचार्यसमीपवर्तिनश्च गुणा इति । आचार्यसमीपवर्तिना च किं विधेयमित्याह-तस्य-आचार्यस्य दृष्टिस्तदृष्टिस्तया सततं वर्तितव्यं हेयोपादेयार्थेषु,
उद्देशका४ यदिवा तस्मिन् संयमे दृष्टिस्तदृष्टिः, स एव वाऽऽगमो दृष्टिस्तदृष्टिस्तया सर्वकार्येषु व्यवहर्त्तव्यम् , तथा-तेनोक्ता सर्व-5 सङ्गेभ्यो विरतिर्मुक्तिस्तया सदा यतितव्यम्, तथा पुरस्करणं पुरस्कारः-सर्वकार्येष्वग्रतः स्थापनं, तस्य-आचार्यस्य पुरस्कारस्तत्पुरस्कारस्तस्मिन्-तद्विषये यतितव्यम् , तथा तस्य संज्ञा तत्संज्ञा-तज्ज्ञानं तद्वांस्तत्संज्ञी सर्वकार्येषु स्यात्, न स्वमतिविरचनया कार्य विदध्यात्, तथा तस्य-गुरोर्निवेशनं-स्थानं यस्यासौ तन्निवेशनः, सदागुरुकुलवासी स्यादिति भावः । तत्र गुरुकुले निवसन् किम्भूतः स्यादित्याह-यतमानो-यतनया विहरणशीलो विहारी स्यात्, यतमानः प्राण्युपमर्दनमकुर्वन् प्रत्युपेक्षणादिकाः क्रियाः कुर्यादिति, किं च-चित्तम्-आचार्याभिप्रायस्तेन निपतितुं-क्रियायां प्रवर्तितुं शीलमस्येति चित्तनिपाती सदा स्यादिति, तथा गुरोः क्वचिद्गतस्य पन्थानं निर्यातुं-प्रलोकितुं शीलमस्येति पथनि
ायी, उपलक्षणं चैतत् तेन सुषुप्सोः संस्तारकप्रलोकी बुभुक्षोराहारान्वेषीत्यादिना गुरोराराधकः सदा स्यात्, किं चपरिः-समन्तात् गुरोरवग्रहात् पुरतः पृष्ठतो वाऽवस्थानात्सदा कार्यमृतेऽबाह्यः स्याद्,एतस्माच सूत्राश्रयः ईर्योदेशका निर्गता 8 इति । किं च-कचित्कार्यादौ गुर्वादिना प्रेषितः सन् दृष्ट्वा प्राणिनो युगमात्रदृष्टिस्तदुपघातं परिहरन् गच्छेत् । किंच
॥२१६॥ से अभिक्कममाणे पडिक्कममाणे संकुचमाणे पसारेमाणे विणिवट्टमाणे संपलिज्जमाणे,