SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ अज्ञानोदयेन वा 'मुह्यति' कार्याकार्यविचारविवेकविकलो भवति, स च मोहमोहितः केनचिच्छिक्षणार्थमभिहितो मिथ्याहष्टिना वा वाचा तिरस्कृतो जात्यादिमदस्थानान्यतरसद्भावेनोन्नतमानमन्दरारूढः कुप्यति, मामप्येवमयं तिरस्करोति, धिग्मे जाति पौरुषं विज्ञानं चेत्येवमभिमानग्रहगृहीतो वाङ्मात्रादपि गच्छान्निर्गच्छति, तन्निर्गतो वाऽधिकरणादिविडम्बनयाऽऽत्मानं विडम्बयति, अथवोन्नम्यमानः केनचित् दुर्विदग्धेनाहोऽयं महाकुलप्रसूत आकृतिमान् पटुप्रज्ञो मृष्टवाक् समस्तशास्त्रवेत्ता सुभगः सुखसेव्यो वेत्यादिना वचसा तथ्येनातथ्येन वोत्मास्यमान उन्नतमानो गर्वाध्मातो महता चारित्रमोहेन मुह्यति संसारमोहेन वोह्यत इति । तस्य चोन्नतमानतया महामोहेन मुह्यतो मोहाच्च वाडमात्रेणापि कुप्यतः कोपाच्च गच्छनिर्गतस्यानभिव्यक्तस्य भिक्षो मानुग्राममेकाकिनः पर्यटतो यत्स्यात्तदाह-तस्याव्यक्तस्यैकचरस्य पर्यटतः सम्बाधयन्तीति सम्बाधाः-पीडाः उपसर्गजनिता नानाप्रकारातड्कजनिता वा भूयो भूयो बह्वयः स्युः, ताश्चैकाकिना|ऽव्यक्तेन निरवद्यविधिना 'दुरतिक्रमा' दुरतिलचनीयाः, किम्भूतस्य दुरतिक्रमा इत्याह-तासां नानाप्रकारनिमित्तोत्था|पितानां बाधानामतिसहनोपायमजानानस्य सम्यक्करणसहनफलं चापश्यतो दुरतिक्रमणीयाः पीडा भवन्ति, ततश्चातपीडाकूलीभूतः सन्नेपणामपि लयेत्, प्राण्युपमर्दमप्यनुमन्येत, वाक्कण्टकनुदितः सन्नव्यक्ततया प्रज्वलेत, नैतद्भावयेद् यथा मत्कर्मविपाकापादिता एताः पीडाः परोऽत्र केवलं निमित्तभूतः, किं च-"आत्मद्रोहममर्याद, मूढमुज्झितसत्पथम् । सुतरामनुकम्पेत, नरकार्चिष्मदिन्धनम् ॥ १ ॥” इत्यादिका भावना आगमापरिमलितमतेन भवेदिति । एतत्प्रदश्यं भगवान् विनेयमाह-'एतद्' एकचर्याप्रतिपन्नस्य वाधादुरतिक्रमणीयत्वमजानानस्यापश्यतश्च 'ते' तव |
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy