SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ - स्वातन्त्र्यगदागदकल्पस्य समस्तव्यसनप्रवाहसेतुभूतस्याशेषकल्याणनिकेतनस्य शुभाचाराधारस्य गच्छस्यान्तर्वर्त्तिनः कचित्प्रमादस्खलिते चोदिताः अवगणय्य सदुपदेशमपर्यालोच्य सद्धर्ममविचार्य कपायविपाककटुकतामनवधार्य परमार्थ पृष्ठतः कृत्वा कुलपुत्रतां वाङ्मात्रादपि केचित्कोपनिघ्नाः सुखैषिणोऽगणितापदो गच्छान्निर्गच्छन्ति, तत्र चैहिकामुष्मिकापायानवाप्नुवन्तीति उक्तं च – “जह सायरंमि मीणा संखोहं सायरस्स असहंता । णिंति तओ सुहकामी णिग्गयमित्ता | विणस्संति ॥ १ ॥ एवं गच्छसमुद्दे सारणवीईहिं चोईया संता । णिंति तओ सुहकामी मीणा व जहा विणस्संति ॥ २ ॥ गच्छंमि केइ पुरिसा सउणी जह पंजरंतरणिरुद्धा । सारणवारणचोइय पासत्थगया परिहरति ॥ ३ ॥ जहा दियापोयमपक्खजायं, सवासया पविउमणं मणागं । तमचाइया तरुणमपत्तजायं, ढंकादि अव्यत्तगमं हरेजा ॥ ४ ॥ एवमजातसूत्रिवयः पक्षस्तीर्थिकध्वाङ्क्षादिभिर्विलुप्यते गच्छालयान्निर्गतो वाङ्मात्रेणापि चोदितः सन् इति । एतद्दर्शयितुमाह वयसावि एगे बुइया कुप्पंति माणवा, उन्नयमाणे य नरे महया मोहेण मुज्झइ, संबाहा बहवे भुज्जो २ दुरइक्कम्मा अजाणओ अपासओ, एयं ते मा होउ, एयं कुसलस्स १ यथा सागरे मीनाः संक्षोभं सागरस्यासहमानाः । निर्गच्छन्ति ततः सुखकामिनो निर्गतमात्रा विनश्यन्ति ॥ १ ॥ एवं गच्छसमुद्दे स्मारणवीचिमिनोंदिताः सन्तः । निर्गच्छन्ति ततः सुखकामिनो मीना इव यथा विनश्यन्ति ॥ २ ॥ गच्छे केचित् पुरुषाः शकुनयो यथा पजरान्तरनिरुद्धाः । स्मारणवारणचोदिताः पार्श्वस्थतां गताः परित्यजन्ति ॥ ३ ॥ यथा द्विजपोतमजातपक्षी खकादावास कात् लवितुमनसं मना । तत्राशक्तं तरुणमजातपत्रं, ढङ्कादयोऽव्यक्तगमं हरेयुः (रन्ति ) ॥४॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy