________________
श्रीआचाराङ्गवृत्तिः (शी.)
आयारम्मि अहीए जं नाओ होइ समणधम्मो उ । तम्हा आयारधरो भण्णइ पढम गणिहाणं ॥१०॥ अध्ययन यस्मादाचाराध्ययनात् क्षान्त्यादिकश्चरणकरणात्मको वा श्रमणधर्मः परिज्ञातो भवति, तस्मात्सर्वेषां गणित्वकारणा
उद्देशकः१ नामाचारधरत्वं प्रथमम् आद्यं प्रधानं वा गणिस्थानमिति ॥१०॥ इदानीं परिमाणं-किं पुनरस्याध्ययनतः पदतश्च परिमाणमित्यत आह
णवबंभचेरमइओ अट्ठारसपयसहस्सिओ वेओ । हवइ य सपंचचूलो बहुबहुतरओ पयग्गेणं ॥११॥
तत्राध्ययनतो नवब्रह्मचर्याभिधानाध्ययनात्मकोऽयं पदतोऽष्टादशपदसहस्रात्मको 'वेद' इति विदन्त्यस्माद्धेयोपादेयपदार्थानिति वेदः-क्षायोपशमिकभाववर्त्ययमाचार इति । सह पञ्चभिशूडाभिर्वर्त्तत इति सपञ्चचूडश्च भवति, उक्तशेषानु-15 वादिनी चूडा, तत्र प्रथमा *"पिंडेसण सेजिरियाभासजाया य वत्थपाएसा उग्गहपडिमत्ति' सप्ताध्ययनामिका, द्वितीया सत्तसत्तिक्कया, तृतीया भावना, चतुर्थी विमुक्तिः, पञ्चमी निशीथाध्ययनं, 'बहुबहुरओ पदग्गेणं ति तत्र चतुश्चूलिकात्मकद्वितीयश्रुतस्कन्धप्रक्षेपाहुः, निशीथाख्यपञ्चमचूलिकाप्रक्षेपाबहुतरोऽनन्तगमपर्यायात्मकतया बहुतमश्च, पदाग्रेण-पदपरिमाणेन भवतीति ॥११॥ इदानीमुपक्रमान्तर्गतं समवतारद्वार, तत्रताश्थूडा नवसु ब्रह्मचर्याध्ययनेष्ववतरन्तीति दर्शयितुमाह
*पिंडेसणसिसिरिया भासा वत्थेसणा य पाएसा इति प्र.
॥
६
॥