SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ लोक०५ उद्देशका श्रीआचा- 1दावनार्थं त्वारभते, तदुद्भावकाश्चामी-"प्रावचनी धर्मकथी वादी नैमित्तिकस्तपस्वी च । विद्यासिद्धः ख्यातः कविरावृत्तिः रपि चोद्भावकास्त्वष्टौ ॥१॥" यदिवा वर्षो-रूपं तदादेशी-तदभिलाषुकः नोद्वर्तनादिकाः क्रिया आरभेत, किम्भूतः (शी०) सन्नेतत्कुर्यादित्याह-'एको' मोक्षोऽशेषमलकलङ्करहितत्वात् संयमो वा रागद्वेषरहितत्वात् तत्र प्रगतं मुखं यस्य स तथा -मोक्षे तदुपाये वा दत्तकदृष्टिर्न कञ्चन पापारम्भमारभेत इति, किं च-मोक्षसंयमाभिमुखा दिक् ततोऽन्या विदिक् तां ॥२१२॥ प्रकर्षेण तीर्णो विदिक्प्रतीर्णः, स चैवम्भूतः सन्नारम्भी स्यात्, कुमार्गपरित्यागेन न पापारम्भान्वेषी भवतीत्यर्थः, किं च-चरणं चारः-अनुष्ठानं निर्विण्णस्य चारो निर्विण्णचारः सोऽस्यास्तीति निर्विण्णचारी, कुत इति चेत् , यतः 'प्रजास्वरतः' प्रजायन्त इति प्रजाः-प्राणिनस्तत्रारतः-तदारम्भाप्रवृत्तो निर्ममत्वो वा, यश्च शरीरादिष्वपि ममत्वरहितः स निर्विण्णचार्येव भवति, यदिवा प्रजा:-स्त्रियस्तास्वरतः आरम्भेऽपि निर्वेदमागच्छति, कारणाभावे कार्यस्याप्यभावादिति ॥ यश्च प्रजास्वरक्तः आरम्भरहितः स किम्भूतः स्यादित्याह से वसुमं सव्वसमन्नागयपन्नाणेणं अप्पाणेणं अकरणिज्जं पावकम्मं तं नो अन्नेसी, जं संमंति पासहा तं मोणंति पासहा जं मोणंति पासहा तं संमंति पासहा, न इमं सकं सिढिलेहिं अदिज्जमाणेहिं गुणासाएहिं वंकसमायारेहिं पमत्तेहिं गारमावसंतेहिं, मुणी मोणं समायाए धुणे सरीरगं, पंतं लूहं सेवंति वीरा सम्मत्तदंसिणो, एस ओ ॥ २१२॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy