________________
स्यादित्याह-'स' जितेन्द्रियो, हुरवधारणे, स एवैकः-अद्वितीयो 'मुनिः' जगत्रयमन्ता 'संविद्धपथः' सम्यग्विद्धःताडितः क्षुण्णः पन्थाः-मोक्षमार्गो ज्ञानदर्शनचारित्राख्यो येन स तथा, 'संविद्धभय'त्ति वा पाठः, संविद्धभयो दृष्टभय
इत्यर्थः, यो ह्यानवद्वारेभ्यो हिंसादिभ्यो निवृत्तः स एव मुनिः क्षुण्णमोक्षमार्ग इति भावार्थः । किं च-अन्येन प्रकारेMणान्यथा-विषयकषायाभिभूतं हिंसादिकर्मसु प्रवृत्तं 'लोक' गृहस्थलोकं पाखण्डिलोकं वा पचनपाचनौदेशिकसञ्चित्ता-15
|हारादिप्रवृत्तमुत्प्रेक्षमाणोऽन्यथा वा आत्मानं निवृत्ताशुभव्यापारमुत्प्रेक्षमाणः संविद्धपथो मुनिः स्यात् इति । लोकं चान्यथोत्प्रेक्ष्य किं कुर्यादित्याह-'इति' पूर्वोक्तैहेतुभिर्यद्वद्धं कर्म तदुपादानं च सर्वतः परिज्ञाय ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञयाऽपि सर्वतः परिहरेत् । कथं परिहरतीत्याह-'स' कर्मपरिहर्ता कायवाङ्मनोभिन हिनस्ति जन्तून न घातयत्यपरै
प्यनुमन्यते । किं च-पापोपादानप्रवृत्तमात्मानं संयमयति, सप्तदशप्रकारं वा संयमं करोति संयमयति, आचारकिबन्तं वैतत् संयम इवाचरति संयमयति । किं च-'नो पगब्भई' 'गल्भ धार्थे' असंयमकर्मसु प्रवृत्तः सन् न प्रगल्भस्वमायाति, रहस्यप्यकार्यप्रवृत्तो जिहेति न धृष्टतां अवलम्बत इति, उपलक्षणार्थत्वादस्य क्षुण्णमोक्षपथो मुनिने क्रुध्यति, न जात्यादिमानमुद्वहति, न वश्चनां विधत्ते, न लुभ्यति । किमाकलय्यैतत्कुर्यादित्याह-'उत्प्रेक्षमाणः' अवगच्छन् प्रत्येक
प्राणिनां सातं मनोऽनुकूलं नान्यसुखेनान्यः सुखीति नापि परदुःखेन दुःखीत्यतःप्राणिनो न हिंस्यादिति । प्राणिनां| है प्रत्येकं सातमुत्प्रेक्षमाणश्च किं कुर्यादित्याह-वर्ण्यते-प्रशस्यते येन स वर्णः-साधुकारस्तदादेशी वर्णादेशी-वणाभिलाषी
सन् नारभते कञ्चन पापारम्भं सर्वस्मिन्नपि लोके, यदिवा-तपःसंयमादिकमप्यारम्भं यशःकीर्त्यर्थं नारभते, प्रवचनो
YASHASHAARIGA MOSSORS