SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराजवृत्तिः (शी०) उहाको ॥२०१॥ धम्म नाभिजाणइ, अहा पया माणव ! कंमकोविया जे अणुवरया अविजाए पलिम क्खमाहु आवद्दमेव अणुपरियहति तिबेमि (१४५)॥ लोकसारे प्रथमोद्देशकः ५-१॥ 'पासह'इत्यादि, हे जनाः! पश्यत यूयमेकान्तपुष्टधर्माणो, बहुवचननिर्देशादाद्यर्थो गम्यते, 'रूपेषु' रूपादिष्विन्द्रियविषयेषु निःसारकटुफलेषु 'गृद्धान्' अध्युपपन्नान् सतः इन्द्रियैर्विषयाभिमुखं संसाराभिमुखं वा नरकादियातनास्थानकेषु वा परिणीयमानान् प्राणिन इति । ते च विषयगृनव इन्द्रियवशगाः संसारार्णवे किमामुयुरित्याह-'एत्थ फासें'इत्यादि, |'अत्र' अस्मिन् संसारे हृषीकवशगः सन् कर्मपरिणतिरूपान् स्पर्शान् पौनःपुन्येन-आवृत्त्या तानेव तेषु तेष्वेव स्थानेषु प्राप्नुयादिति । पाठान्तरं वा 'एत्थ मोहे पुणो पुणो' 'अत्र' अस्मिन् संसारे 'मोहे' अज्ञाने चारित्रमोहे वा पुनः पुनर्भवतीति । कोऽसावेवम्भूतः स्यादित्यत आह-'आवंती'त्यादि, यावन्तः केचन 'लोके' गृहस्थलोके 'आरम्भजीविनः' सावद्यानुष्ठानस्थितिकाः, ते पौनःपुन्येन दुःखान्यनुभवेयुरिति । येऽपि गृहस्थाश्रिताः सारम्भास्तीर्थिकादयस्तेऽपि तदुःखभाजिन इति दर्शयति-'एएसु'इत्यादि, 'एतेषु' सावद्यारम्भप्रवृत्तेषु गृहस्थेषु शरीरयापनार्थ वर्तमानस्तीर्थिकः पार्श्वस्थादिर्वा |'आरम्भजीवी' सावद्यानुष्ठानवृत्तिः पूर्वोक्तदुःखभाग् भवति । आस्तां तावद्गृहस्थस्तीर्थिको वा, योऽपि संसारार्णवतटदेशमवाप्य सम्यक्त्वरतं लब्ध्वाऽपि मोक्षककारणं विरतिपरिणामं सफलतामनीत्वा कर्मोदयात् सोऽपि सावद्यानुष्ठायी स्यादित्याह-'एत्थवि बाले'इत्यादि, 'अत्र' अस्मिन्नयहाणीतसंयमाभ्युपगमे 'बालो' रागद्वेषाकुलितः परितप्यमानः BREARRAAAAAAg ॥२०१॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy