________________
श्रीआचाराजवृत्तिः (शी०)
उहाको
॥२०१॥
धम्म नाभिजाणइ, अहा पया माणव ! कंमकोविया जे अणुवरया अविजाए पलिम
क्खमाहु आवद्दमेव अणुपरियहति तिबेमि (१४५)॥ लोकसारे प्रथमोद्देशकः ५-१॥ 'पासह'इत्यादि, हे जनाः! पश्यत यूयमेकान्तपुष्टधर्माणो, बहुवचननिर्देशादाद्यर्थो गम्यते, 'रूपेषु' रूपादिष्विन्द्रियविषयेषु निःसारकटुफलेषु 'गृद्धान्' अध्युपपन्नान् सतः इन्द्रियैर्विषयाभिमुखं संसाराभिमुखं वा नरकादियातनास्थानकेषु वा परिणीयमानान् प्राणिन इति । ते च विषयगृनव इन्द्रियवशगाः संसारार्णवे किमामुयुरित्याह-'एत्थ फासें'इत्यादि, |'अत्र' अस्मिन् संसारे हृषीकवशगः सन् कर्मपरिणतिरूपान् स्पर्शान् पौनःपुन्येन-आवृत्त्या तानेव तेषु तेष्वेव स्थानेषु प्राप्नुयादिति । पाठान्तरं वा 'एत्थ मोहे पुणो पुणो' 'अत्र' अस्मिन् संसारे 'मोहे' अज्ञाने चारित्रमोहे वा पुनः पुनर्भवतीति । कोऽसावेवम्भूतः स्यादित्यत आह-'आवंती'त्यादि, यावन्तः केचन 'लोके' गृहस्थलोके 'आरम्भजीविनः' सावद्यानुष्ठानस्थितिकाः, ते पौनःपुन्येन दुःखान्यनुभवेयुरिति । येऽपि गृहस्थाश्रिताः सारम्भास्तीर्थिकादयस्तेऽपि तदुःखभाजिन इति दर्शयति-'एएसु'इत्यादि, 'एतेषु' सावद्यारम्भप्रवृत्तेषु गृहस्थेषु शरीरयापनार्थ वर्तमानस्तीर्थिकः पार्श्वस्थादिर्वा |'आरम्भजीवी' सावद्यानुष्ठानवृत्तिः पूर्वोक्तदुःखभाग् भवति । आस्तां तावद्गृहस्थस्तीर्थिको वा, योऽपि संसारार्णवतटदेशमवाप्य सम्यक्त्वरतं लब्ध्वाऽपि मोक्षककारणं विरतिपरिणामं सफलतामनीत्वा कर्मोदयात् सोऽपि सावद्यानुष्ठायी स्यादित्याह-'एत्थवि बाले'इत्यादि, 'अत्र' अस्मिन्नयहाणीतसंयमाभ्युपगमे 'बालो' रागद्वेषाकुलितः परितप्यमानः
BREARRAAAAAAg
॥२०१॥