________________
४ वादः तदकरणतया वा पुनरनुत्थानमिति, नागार्जुनीयास्तु पठन्ति-"जे खलु विसए सेवई सेवित्ता वा णालो-|
एइ, परेण वा पुट्ठो निण्हवइ, अहवा तं परं सएण वा दोसेण पावियरेण वा दोसेण उवलिंपिजत्ति" सुगमं । यद्येवं| ततः किं कुर्यादित्याह-लद्धा हु' इत्यादि, लब्धानपि कामान् ‘हुरत्थे'त्ति बहिश्चित्रक्षुल्लकादिवत्तद्विपाकं प्रत्युपेक्ष्य चित्तादहिः कुर्यात्, यदिवा हुशब्दोऽपिशब्दार्थे, रेफागमः सुब्व्यत्ययेन द्वितीयार्थे प्रथमा, ततोऽयमों-लब्धानप्यर्थ्यन्ते -अभिलष्यन्त इत्यर्थाः-शब्दादयस्तानुपनतानपि तद्विपाकद्वारेण 'प्रत्युपेक्ष्य' पोलोच्य ततः 'आगम्य' ज्ञात्वा दरन्तं शब्दादिविषयानुष, क्त्वाप्रत्ययस्योत्तरक्रियासव्यपेक्षत्वात्तां दर्शयति-तदनासेवनतया परानाज्ञापयेत्, स्वतोऽपि परिहरेदिति, एतदहं ब्रवीमि येन मया पूर्वार्थव्यावर्णनमकारि स एवाहमव्यवच्छिन्नसम्यग्ज्ञानप्रवाहः शब्दादिविषयस्वरूपोपलम्भात् समुपजनितजिनवचनसंमद इति । एतच्च वक्ष्यमाणं ब्रवीमीति, तदाह
पासह एगे रूवेसु गिद्धे परिणिजमाणे, इत्थ फासे पुणो पुणो, आवंती केयावंती लोयंसि आरंभजीवी, एएसु चेव आरंभजीवी, इत्थवि बाले परिपञ्चमाणे रमई पावेहिं कम्मेहिं असरणे सरणंति मन्नमाणे, इहमेगेसिं एगचरिया भवइ, से बहुकोहे बहुमाणे बहुमाए बहुलोभे बहुरए बहुनडे बहुसढे बहुसंकप्पे आसवसत्ती पलिउच्छन्ने उट्टियवायं पवयमाणे, मा मे केइ अदक्खू अन्नायपमायदोसेणं, सययं मूढे