________________
श्रीआचाराङ्गवृत्तिः (शी०) ॥१९९॥
लोक०५ उद्देशकः१
MASSANAKAHARASHIRIAMS
से पासइ फुसियमिव कुसग्गे पणुन्नं निवइयं वाएरियं, एवं बालस्स जीवियं मंदस्स अवियाणओ, कूराई कम्माइं बाले पकुव्वमाणे तेण दुक्खेण मूढे विप्परिआसमुवेइ,
मोहेण गब्भं मरणाइ एइ, एत्थ मोहे पुणो पुणो (सू० १४२) 'से पासईत्यादि, 'सः' अपगतमिथ्यात्वपटलः सम्यक्त्वप्रभावावगतसंसारासारः 'पश्यति' दृशिरुपलब्धिक्रिय इत्यत उपलभते-अवगच्छति, किं तत्?–'फुसियमिव'त्ति कुशाग्र उदकबिन्दुमिव बालस्य जीवितमिति सम्बन्धः, तत्किम्भूतमित्याह-'पणुन्न'मित्यादि, प्रणुन्नम्-अनवरतापरापरोदकपरमाणूपचयात् प्रणुन्नं-प्रेरितं वातेनेरितं सन्निपतितं भाविनि | भूतवदुपचारानिपतदेव निपतितं, दाष्टोन्तिकं दर्शयति एवं मिति यथा कुशाग्रे बिन्दुः क्षणसम्भावितस्थितिकः एवं बालस्यापि जीवितम्, अवगततत्त्वो हि स्वयमेवावगच्छति नाप्यसौ तदभिकाङ्क्षति अतो बालग्रहणं, बालो ह्यज्ञः, स चाज्ञानत्वादेव जीवितं बहु मन्यते, यत एव वालोऽत एव मन्दः-सदसद्विवेकापटुः, यत एव बुद्धिमन्दोऽत एव परमार्थ | न जानाति, अतः परमार्थमविजानत एवम्भूतं जीवितमित्येवं पश्यति । परमार्थमजानंश्च यत्कुर्यात्तदाह-कूराणि'इत्यादि, 'क्रूराणि' निर्दयानि निरनुक्रोशानि 'कोणि' अनुष्ठानानि हिंसानृतस्तेयादीनि सकललोकचमत्कृतिकारीणि अष्टादश वा पापस्थानानि 'बालः''अज्ञः प्रकर्षेण कुर्वाणः, कञभिप्राये क्रियाफले आत्मनेपदविधानात्तस्यैव तक्रियाफलविपाकं दर्शयति-'तेन' क्रूरकर्मविपाकापादितेन दुःखेन 'मूढः' किंकर्तव्यताऽऽकुलः, केन कृतेन ममैतद्दुःखमुपशमं या
D
॥१९९॥