________________
आ. सू. ३४
मर्माणि कुरुते यान्यस्य कायगतस्य विपच्यन्ते, तदुच्यते- 'गुरू से कामा' 'से' तस्यापरमार्थविदः काम्यन्त इति कामा:शब्दादयस्ते गुरवो दुस्त्यजत्वात्, कामा ह्यल्पस स्वैरनवाप्त पुण्योपचयैरुलयितुं दुष्करमित्यतस्तदर्थं कायेषु प्रवर्त्तते तत्प्रवृत्तौ च पापोपत्रयस्तदुपचयाच्च यत्स्यासदाह - 'ततः' षड्जीवनिकायविपरामर्शात् परमकामगुरुत्वाच्चासौ मरणं मारः- आयुषः क्षयस्तस्यान्तर्वर्त्तते, मृतस्य च पुनर्जन्म जन्मनि चावश्यंभावी मृत्युरेवं जन्ममरणात् संसारोदन्वति | मज्जनोन्मज्जनरूपान्न मुच्यते । ततः किमपरमित्याह - 'जओ से' इत्यादि, यतोऽसौ मृत्योरन्तस्ततोऽसौ 'दूरे' परमपदोपायात् ज्ञानादित्रयात् तत्कार्याद्वा मोक्षाद्, यदिवा सुखार्थी कामान्न परित्यजति, तदपरित्यागे च मारान्तर्वर्त्ती, यतश्च मारान्तर्वतीं ततो जातिजरामरणरोगशोकाभिभूतत्वादसौ सुखाद्दूरे। यस्मादसौ कामगुरुस्तद्गुरुत्वान्मारान्तर्वतीं तदन्तवर्त्तित्वात्किम्भूतो भवतीत्यत आह- 'नेव से' इत्यादि, नैवासौ विषयसुखस्यान्तर्वर्त्तते, तदभिलाषापरित्यागाच्च नैवासौ दूरे, यदिवा यस्य गुरवः कामाः स किं कर्म्मणोऽन्तर्बहिर्वेति प्रश्नावसरे सत्याह- 'णेव से इत्यादि, नैवासौ कर्मणोऽन्तः- मध्ये भिन्नग्रन्थित्वात्सम्भावितावश्यं भाविकर्मक्षयोपपत्तेः, नाप्यसौ दूरे देशोनकोटीकोटिकर्म्मस्थितिकत्वात्, चारित्रावातावपि नैवान्तर्नैव च दूरे इत्येतच्छक्यते वक्तुं पूर्वोक्तादेव कारणादिति, अथवा येनेदं प्राणायि किमसावन्तर्भूतः संसारस्याहोश्विद्बहिर्वर्त्तते इत्याशङ्कयाह- 'णेव से' इत्यादि, नैवासी संसारान्तः घातिकर्म्मक्षयात् नापि दूरे अद्यापि भवोपग्राहि कर्म्मसद्भावादिति ॥ यो हि भिन्नग्रन्थिको दुरापावाप्तसम्यक्त्वः संसारारातीयतीरवर्ती स किमध्यवसायी स्यादित्याह