________________
सम्य०४
उद्देशकः३
श्रीआचा- भस्मसात् करोति, दृष्टान्तं प्रदर्श्य दार्टान्तिकमाह-एवं अत्तसमाहिए' 'एवम्' अनन्तरोक्तदृष्टान्तप्रकारेणात्मना रामवृत्तिः समाहितः आत्मसमाहितः, ज्ञानदर्शनचारित्रोपयोगेन सदोपयुक्त इत्यर्थः, आत्मा वा समाहितोऽस्येत्यात्मसमाहितः, सदा (शी०) शुभव्यापारवानित्यर्थः, आहिताग्यादिदर्शनादापत्वाद्वा निष्ठान्तस्य परनिपातः, यदिवा प्राकृते पूर्वोत्तरनिपातोऽतन्त्रः,
समाहितात्मेत्यर्थः, 'अस्निहः' स्नेहरहितः संस्तपोऽग्निना कर्मकाष्ठं दहतीति भावार्थः ॥ एतदेव दृष्टान्तदान्तिकगत॥१९ ॥
मर्थ नियुक्तिकारो गाथयोपसञ्जिघृक्षुराहजह खलु झुसिरं कटु सुचिरं सुकं लहुं डहइ अग्गी । तह खलु खवंति कम्मं सम्मचरणे ठिया साहू ॥२३४॥ ___ गतार्था । अत्र चामिहपदेन रागनिवृत्तिं विधाय द्वेषनिवृत्तिं विधित्सुराह-'विगिंच कोह'मित्यादि, कारणेऽकारणे
वाऽतिक्रूराध्यवसायः क्रोधः तं परित्यज, तस्य च कार्य कम्पनं तत्प्रतिषेधं दर्शयति-अविकम्पमानः॥किं विगणय्यैतत्कुर्या18 दित्याह
इमं निरुद्धाउयं संपेहाए, दुक्खं च जाण अदु आगमेस्सं, पुढो फासाइं च फासे, लोयं च पास विफंदमाणं, जे निव्वुडा पावेहिं कम्मेहिं अणियाणा ते वियाहिया,
तम्हा अतिविजो नो पडिसंजलिज्जासि त्तिबेमि (सू० १३६) चतुर्थे तृतीयः॥४-३॥ 'इदं' मनुष्यत्वं 'निरुद्धायुष्क' निरुद्धं-परिगलितमायुष्कं 'सम्प्रेक्ष्य' पर्यालोच्य क्रोधादिपरित्यागं विदध्यात्, किं च
M
॥१९१॥