SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ आज्ञाकानी पण्डितो भान हन्यत इति निहतः भा परिज्ञाता । यश्चैवम्भूतः स विदितवेद्यः अस्निहो भवति, स्निह्यते-श्लिष्यतेऽष्टप्रकारेण कर्मणेति स्निहो न स्निहोऽस्त्रिहः, यदिवा स्निह्यतीति स्निहोरागवान् यो न तथा सोऽस्त्रिहः, उपलक्षणार्थत्वाच्चास्य रागद्वेषरहित इत्यर्थः, अथवा निश्चयेन हन्यत इति निहतः भावरिपुभिरिन्द्रियकषायकर्मभिः यो न तथा सोऽनिहतः, इह प्रवचने आज्ञाकानी पण्डितो भावरिपुभिरनिहतो, नान्यत्र, | यश्चानिहतः स परमार्थतः कर्मणः परिज्ञाता। यश्चैवम्भूतः स किं कुयोंदित्याह-एगमप्पाण' मित्यादि, सोऽनिहतोsस्निहो वा आत्मानमेकं धनधान्यहिरण्यपुत्रकलत्रशरीरादिव्यतिरिक्तं 'संप्रेक्ष्य' पर्यालोच्य धुनीयाच्छरीरक, सम्भावनायां लिड्, सर्वस्मादात्मानं व्यतिरिक्तं पश्यतः सम्भाव्यत एतच्छरीरविधूननमिति, तच्च कुर्वता संसारस्वभावकत्वभावनैवंरूपा भावयितव्येति-"संसार एवायमनर्थसारः, कः कस्य कोऽत्र स्वजनः परो वा ? । सर्वे भ्रमन्तः स्वजनाः परे च, भवन्ति भूत्वा न भवन्ति भूयः॥१॥ विचिन्त्यमेतद्भवताऽहमेको, न मेऽस्ति कश्चित्पुरतो न पश्चात् । स्वकर्मभिर्धान्तिरियं ममैव, अहं पुरस्तादहमेव पश्चात् ॥ २॥ सदैकोऽहं न मे कश्चित् , नाहमन्यस्य कस्यचित् । न तं पश्यामि यस्याहं, नासौ भावीति यो मम ॥ ३॥" तथा-एकः प्रकुरुते कर्म, भुनक्त्येकश्च तत्फलम् । जायते म्रियते चैक, एको याति भवान्तरम् ॥ १॥ इत्यादि, किं च-कसेहि अप्पाणं जरेहि अप्पाणं' परव्यतिरिक्त आत्मा शरीरं तत् कष्टतपश्चरदाणादिना कृशं कुरु, यदिवा 'कष' कस्मै कर्मणेऽलमित्येवं पर्यालोच्य यच्छक्कोषि तत्र नियोजयेदित्यर्थः, तथा 'जर' शरी रकं जरीकुरु, तपसा तथा कुरु यथा जराजीर्णमिव प्रतिभासते, विकृतिपरित्यागद्वारेणात्मानं निःसारतामापादयेदित्यर्थः, किमर्थमित्येतदिति चेदाह-जहा' इत्यादि, यथा 'जीर्णानि' निःसाराणि काष्ठानि 'हव्यवाहो' हुतभुक्प्रमनाति-शीघ्र एवायमनसायमेतद्भवताऽहमेका में कश्चित्, नामफलम् । जार
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy