________________
श्रीआचा- म्बन्धो लगयितव्यः, कथमसख्येयगुणा श्रेणिर्भवेदिति ?, अत्रोच्यते, इह मिथ्यादृष्टयो देशोनकोटीकोटिकर्मस्थितिका सम्य०४ रावृत्तिः प्रन्थिकसत्त्वास्ते कर्मनिर्जरामाश्रित्य तुल्याः, धर्मप्रच्छनोत्पन्नसंज्ञास्तेभ्योऽसख्येयगुणनिर्जरकाः, ततोऽपि पिपृच्छिषुः
उद्देशका (शी०) सन् साधुसमीपं जिगमिषुस्तस्मादपि क्रियाविष्टः पृच्छन् , ततोऽपि धर्म प्रतिपित्सुः, अस्मादपि क्रियाविष्टः प्रतिपद्यमानः,
तस्मादपि पूर्वप्रतिपन्नोऽसख्येयगुणनिजेरक इति सम्यक्त्वोत्पत्तिव्याख्याता, तदनन्तरं विरताविरतिं प्रतिपित्सुप्र॥१७७॥
तिपद्यमानपूर्वप्रतिपन्नानामुत्तरोत्तरस्यासङ्ख्येयगुणा निर्जरा योज्या, एवं सर्वविरतावपीति, ततोऽपि पूर्वप्रतिपन्नसर्वविरते. सकाशात् 'अणंतकम्मसे'त्ति 'पदैकदेशे पदप्रयोग' इति यथा भीमसनो भीमः सत्यभामा भामा एवमनन्तशब्दोपल|क्षिता अनन्तानुबन्धिना, ते हि मोहनीयस्यांशाः-भागाः तांश्चिक्षपयिषुरसङ्ख्येयगुणनिर्जरकः, ततोऽपि क्षपकः, तस्मादपि
क्षीणानन्तानुबन्धिकषायः, एतदेव दर्शनमोहनीयत्रयेऽभिमुखक्रियारूढापवर्गत्रयमायोज्यं, ततोऽपि क्षीणसप्तकारक्षीण18 सप्तक एवोपशमश्रेण्यारूढोऽसख्येयगुणनिर्जरकः, ततोऽप्युपशान्तमोहः, तस्मादपि चारित्रमोहनीयक्षपकः, ततोऽपि
क्षीणमोहः, अत्र चाभिमुखादित्र्यं यथासम्भवमायोजनीयम्, अस्मादपि 'जिनो भवस्थकेवली, तस्मादपि शैलेश्यवस्थोडसङ्ख्ययगुणनिर्जरकः । तदेवं कर्मनिर्जरायै असङ्ख्येयलोकाकाशप्रदेशप्रमाणनिष्पादितसंयमस्थानप्रचयोपात्तश्रेणिः सोत्तरोत्तरेषामसख्येयगुणा, उत्तरोत्तरप्रवर्द्धमानाध्यवसायकण्डकोपपत्तेरिति, कालस्तु तद्विपरीतोऽयोगिकेवलिन आरभ्य प्रतिलोमतया सख्येयगुणया श्रेण्या ज्ञेयः, इदमुक्तं भवति-यावतकालेन यावत्कर्मायोगिकेवली क्षपयति ताव- ॥१७७॥ न्मानं कर्म सयोगिकेवली सख्येयगुणेन कालेन क्षपयति एवं प्रतिलोमतया यावद्धर्म पिपृच्छिषुस्तावन्नेयमिति गाथा-12