SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ कुर्वन्नपि क्रिया परित्यजन्नपि स्वजनधनभोगान् दददपि दुःखस्योरः न जयत्यन्धः परानीकमिति गाथार्थः ॥ तदेवं दृष्टान्तमुपदर्य दार्शन्तिकमाह कुणमाणोऽविनिवित्तिं परिचयंतोऽविसयणधणभोए।दितोऽविदुहस्स उरं मिच्छविहीन सिज्झइ उ ॥२२॥ । कुर्वन्नपि निवृत्तिम्-अन्यदर्शनाभिहितां, तद्यथा-पञ्च यमाः पञ्च नियमा इत्यादिकां तथा परित्यजन्नपि स्वजनधनभोगान् पञ्चाग्नितपआदिना दददपि दुःखस्योरः मिथ्यादृष्टिर्न सिध्यति, तुरवधारणे, नैव सिध्यति, दर्शनविकलत्वाद्, अन्धकुमारवत् असमर्थः कार्यसिद्धये । यत एवं ततः किं कर्त्तव्यमित्याह तम्हा कम्माणीयं जेउमणो दसणंमि पयइज्जा । दसणवओ हि सफलाणि हुंति तवनाणचरणाई ॥२२२॥ यस्मासिद्धिमार्गमूलास्पदं सम्यग्दर्शनमन्तरेण न कर्मक्षयः स्यात्, तस्मात्कारणाकानीकं जेतुमनाः सम्यग्दर्शने प्रयतेत, तस्मिंश्च सति यद्भवति तदर्शयति-दर्शनवतो हि 'हिः' हेतौ यस्मात्सम्यग्दर्शनिनः सफलानि भवन्ति 3 तपोज्ञानचरणान्यतस्तत्र यत्नवता भाव्यमिति गाथार्थः ॥ प्रकारान्तरेणापि सम्यग्दर्शनस्य तत्पूर्वकाणां च गुणस्थान कानां गुणमाविर्भावयितुमाह-॥ | सम्मत्तुपत्ती सावए य विरए अणंतकम्मंसे। दंसणमोहक्खवए उवसामन्ते य उवसंते ॥ २२३ ॥ खवए य खीणमोहे जिणे असेढी भवे असंखिज्जा । तश्विवरीओ कालो संखिजगुणाइ सेढीए ॥ २२४॥ सम्यक्त्वस्योत्पत्तिः सम्यक्त्वोत्पत्तिस्तस्यां विवक्षितायामसङ्खयेयगुणा श्रेणिर्भवेदित्युत्तरगाथार्द्धान्त क्रियामपेक्ष्य स
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy