________________
सम्य०४
उद्देशकः१
श्रीआचा- प्रथमोद्देशके सम्यग्वाद इत्ययमर्थाधिकारः, सम्यग्-अविपरीतो वादः सम्यग्वादो-यथावस्थितवस्त्वाविर्भावनं, द्विराङ्गवृत्तिः तीये तु धर्मप्रवादिकपरीक्षा, धर्म प्रवदितुं शीलं येषा ते धर्मप्रवादिनस्त एव धर्मप्रवादिकाः, धर्मप्रावादुका इत्यर्थ(शी.) स्तेषां परीक्षा-युक्तायुक्तविचारणमिति, तृतीयेऽनवद्यतपोव्यावर्णनं, न च बालतपसा-अज्ञानितपश्चरणेन मोक्ष इत्ययमर्था
धिकारः, चतुर्थोद्देशके तु 'समासवचनेन' सोपवचनेन 'नियमनं भणितं' संयत उक्त इति । तदेवं प्रथमोद्देशके सम्य॥१७५॥
ग्दर्शनमुक्तं, द्वितीये तु सम्यग्ज्ञानं, तृतीये बालतपोव्युदासेन सम्यक्तपः, चतुर्थे तु सम्यक्चारित्रमिति, तस्माच्चशब्दो द हेतौ, यतश्चतुष्टयमपि मोक्षाङ्गं प्रागुक्तं तस्मात् ज्ञानदर्शनस्तपश्चरणेषु 'मुमुक्षुणा यतितव्यं तत्प्रतिपालनाय यावज्जीव यत्तो विधेय इति गाथाद्वयार्थः ॥ अधुना नामनिष्पन्ननिक्षेपायातस्य सम्यक्त्वाभिधानस्य निक्षेपं चिकीर्षुराहनामंठवणासम्मं व्वसम्मं च भावसम्मं च । एसो खलु सम्मस्सा निक्खेवो चउविहो होइ ॥ २१७ ॥ अक्षरार्थः सुगमः, भावार्थ तु सुगमनामस्थापनाव्युदासेन द्रव्यभावगतं नियुक्तिकारः प्रतिपिपादयिषुराहअह दव्वसम्म इच्छाणुलोमियं तेसु तेसु दव्वेसुं। कयसंखयसंजुत्तो पउत्त जढ भिण्ण छिपणं वा ॥२१८॥ 'अथे त्यानन्तर्ये ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यसम्यक्त्वमित्याह, 'ऐच्छानुलोमिक' इच्छा-चेतःप्रवृत्तिरभिप्रायस्तस्यानुलोमम्-अनुकूलं तत्र भवमैच्छानुलोमिकं तच्च तेषु तेष्विच्छा भावानुकूल्यतामाक्षुद्रव्येषु कृताधुपाधिभेदेन सप्तधा 18 भवति, तद्यथा-कृतम्-अपूर्वमेव निर्वर्तितं रथादि, तस्य यथाऽवयवलक्षणनिष्पत्तव्यसम्यकर्तुस्तन्निमित्तचित्तस्वास्थ्योपत्तेः
NARESHSAAS
॥ १७५॥