________________
स्वामिनं कथयति, यथा सोऽहं ब्रवीमि येन मया भगवसादारविन्दमुपास(य)ता सर्वमेतदश्रावि तद्भवते तदुपदिष्टार्थानुसारितया कथयामि, न पुनः स्वमतिविकल्पशिल्परचनयेति । गतः सूत्रानुगमः, तद्गतौ च समाप्तश्चतुर्थोद्देशकः ॥ तत्समाप्तौ चातीतानागतनयविचारातिदेशात् समाप्तं शीतोष्णीयाध्ययनमिति ॥ ग्रन्थानम् ७९०॥
अथ चतुर्थं सम्यक्त्वाख्यमध्ययनम् । उक्तं तृतीयमध्ययनं, साम्प्रतं चतुर्थमारभ्यते, अस्य चायमभिसम्बन्धः-इह शस्त्रपरिज्ञायामन्वयव्यतिरेकाभ्यां पडीनवनिकायान् व्युत्पादयता जीवाजीवपदार्थद्वयं व्युत्पादितं, तद्वधे च बन्धं विरतिं च भणताऽऽनवसंवरपदार्थद्वयमूचे,
तथा लोकविजयाध्ययने लोको यथा बध्यते यथा च मुच्यत इति वदता बन्धनिजेरे गदिते, शीतोष्णीयाध्ययने तु शीतोष्णरूपाः परीषहाः सोढव्या इति भणता तत्फललक्षणो मोक्षोऽभिहितः, ततश्चाध्ययनत्रयेण सप्तपदार्थात्मकं तत्त्वमभिहितं, तत्त्वार्थश्रद्धानं च सम्यक्त्वमुच्यते, तदधुना प्रतिपाद्यते, अनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि व्यावोपक्रमेऽर्थाधिकारो द्वेधा, तत्राध्ययनार्थाधिकारः सम्यक्त्वाख्यः शस्त्रपरिज्ञायां प्रागेवाभाणि, उद्देशकार्थाधिकारप्रतिपादनाय तु नियुक्तिकार आह
पढमे सम्मावाओ बीए धम्मप्पवाइयपरिक्खा । तइए अणवजतवो न हु बालतवेण मुक्खुत्ति ॥ २१५॥
उद्देसंमि चउत्थे समासवयणेण णियमणं भणियं । तम्हा य नाणदंसणतवचरणे होइ जइयव्वं ॥ २१६ ॥ आ. सू. ३०