________________
अत्थपजवा वयणपजवा वावि । तीयाणागय या तावइयं तं हवइ दव्वं ॥१॥" तदेवं सर्वज्ञस्तीर्थकृत् , सर्वज्ञश्च सम्भविनमेव सर्वसत्त्वोपकारिणमुपदेशं ददातीति दर्शयति
सव्वओ पमत्तस्स भयं, सव्वओ अप्पमत्तस्स नत्थि भयं, जे एगं नामे से बहुं नामे, जे बहुं नामे से एगं नामे, दुक्खं लोगस्स जाणित्ता वंता लोगस्स संजोगं जंति धीरा
महाजाणं, परेण परं जंति, नावकंखंति जीवियं (सू० १२३) . सर्वतः-सर्वप्रकारेण द्रव्यादिना यद्भयकारि कर्मोपादीयते ततः 'प्रमत्तस्य' मद्यादिप्रमादवतो 'भयं' भीतिः, तद्यथाप्रमत्तो हि कर्मोपचिनोति द्रव्यतः सर्वैरात्मप्रदेशैः क्षेत्रतः पदिग्व्यवस्थितं कालतोऽनुसमयं भावतो हिंसादिभिः, यदिवा 'सर्वत्र सर्वतो भयमिहामुत्र च, एतद्विपरीतस्य च नास्ति भयमिति, आह च-'सब्वओ' इत्यादि, 'सर्वतः' ऐहिकामुष्मिकापायाद् 'अप्रमत्तस्य' आत्महितेषु जाग्रतो नास्ति भयं संसारापसदात्सकाशात्कर्मणो वा, अप्रमत्तता च कपायाभावाद्भवति, तदभावाच्चाशेषमोहनीयाभावः, ततोऽप्यशेषकर्मक्षयः, तदेवमेकाभावे सति बहूनामभावसम्भवः, एकाभावोऽपि बहुवभावानान्तरीयक इत्येवं गतप्रत्यागतसूत्रेण हेतुहेतुमद्भाव दर्शयितुमाह-'जे एग' मित्यादि, यो हि प्रवर्द्धमानशुभाध्यवसायाधिरूढकण्डकः एकम्-अनन्तानुवन्धिनं क्रोधं 'नामयति' क्षपयति स बहूनपि मानादीनामयति -क्षपयति अप्रत्याख्यानादीन् वा स्वभेदान्नामयति, मोहनीयं चैक यो नामयति स शेषा अपि प्रकृतीनोमयति, यो वा