________________
AAAAAACROSASARAN
दारान्तःपातित्वान्मङ्गलमिति, एतच्चाभिलषितशास्त्रार्थस्थिरीकरणार्थम् , अवसानमङ्गलं नवमाध्ययनेऽवसानसूत्रम् 'अभि-I
निव्वुडे अमाई आवकहाए भगवं समियासी' अत्राभिनिवृतग्रहणं संसारमहातरुकन्दोच्छेद्यऽविप्रतिपत्त्या ध्यानकारिस्वान्मङ्गलमिति, एतच्च शिष्यप्रशियसन्तानाव्यवच्छेदार्थमिति, अध्ययनगतसूत्रमङ्गलत्वप्रतिपादे नवनवाध्ययनानामपि मङ्गलत्वमुक्तमेवेति न प्रतन्यते, सर्वमेव वा शास्त्रं मङ्गलं, ज्ञानरूपत्वात् , ज्ञानस्य च निर्जरार्थत्वात्, निर्जरार्थत्वेन च तस्याविप्रतिपत्तिः, यदुक्तम्-"जं अन्नाणी कम्म खवेइ बहुयाहिं वासकोडीहिं । तं नाणी तिहिँ गुत्तो खवेइ उस्सासमित्तेणं ॥१॥" मङ्गलशब्दनिरुक्तं च मां गालयत्यपनयति भवादिति मङ्गलं, मा भूगलो विघ्नो गालो वा नाशः शास्त्रस्येति मङ्गलमित्यादि, शेषं त्वाक्षेपपरिहारादिकमन्यतोऽवसेयमिति । __ साम्प्रतमाचारानुयोगः प्रारभ्यते-आचारस्यानुयोगः-अर्थकथनमाचारानुयोगः, सूत्रादनु-पश्चादर्थस्य योगोऽनुयोगः, ४ सूत्राध्ययनात्पश्चादर्थकथनमिति भावना, अणोर्वा लघीयसः सूत्रस्य महताऽर्थेन योगोऽनुयोगः, स चामीभिरैरनुग-18
न्तव्यः, तद्यथा-निक्खेवेगहनिरुत्तिविहिपवित्ती य केण वा कस्स । तद्दारभेयलक्खण तदरिहपरिसा य सुत्तत्थो॥ १ ॥ तत्र निक्षेपो-नामादिः सप्तधा, नामस्थापने क्षुण्णे, द्रव्यानुयोगो द्वेधा-आगमतो नोआगमतश्च, तत्रागमतो ज्ञाता तत्र चानुपयुक्तो, नोआगमतो ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तोऽनेकधा, द्रव्येण-सेटिकादिना द्रव्यस्य-आत्मपरमाण्वादेर्द्रव्येनिषद्यादौ वा अनुयोगो द्रव्यानुयोगः, क्षेत्रानुयोगः क्षेत्रेण क्षेत्रस्य क्षेत्रे वाऽनुयोगः क्षेत्रानुयोगः, एवं कालेन कालस्य
* प्रतिशिष्येति प्र. १ यदज्ञानी कर्म क्षपयति बहुकाभिर्वर्षकोटीभिः । तज्ज्ञानी त्रिभिर्गुप्तः क्षपयत्युच्यासमात्रेण ॥१॥