SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ १ ॥ इह हि रागद्वेषमोहाद्यभिभूतेन सर्वेणापि संसारिजन्तुना शारीरमानसाने कातिकटुक दुःखोपनिपातपीडितेन तदपनयनाय हेयोपादेयपदार्थपरिज्ञाने यत्नो विधेयः, स च न विशिष्टविवेकमृते, विशिष्टविवेकश्च न प्राप्ताशेषातिशयकलापाप्तोपदेशमन्तरेण, आप्तश्च रागद्वेषमोहादीनां दोषाणामात्यन्तिकप्रक्षयात् स चार्हत एव, अतः प्रारभ्यतेऽर्हद्वचनानुयोगः, स च चतुर्धा, तद्यथा - धर्मकथानुयोगो गणितानुयोगो द्रव्यानुयोगश्चरणकरणानुयोगश्चेति, तत्र धर्मकथानुयोग उत्तराध्ययनादिकः, गणितानुयोगः सूर्यप्रज्ञयादिकः, द्रव्यानुयोगः पूर्व्वाणि सम्मत्यादिकश्च चरणकरणानुयोगश्चाचारादिकः, स च प्रधानतमः, शेषाणां तदर्थत्वात्, तदुक्तम् — चरणपडिवत्तिहेउ जेणियरे तिण्णि अणुओग"त्ति, तथा “चरणपडिवत्तिहे धम्मकहाकालदिक्खमादीया । दविए दंसणसोही दंसणसुद्धस्स चरणं तु ॥ १ ॥” गणधरैरप्यत एव तस्यैवादौ प्रणयनमकारि, अतस्तत्प्रतिपादकस्याचाराङ्गस्यानुयोगः समारभ्यते, स च परमपदप्राप्तिहेतुत्वात्सविघ्नः, तदुक्तम्“श्रेयांसि बहुविघ्नानि भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां, क्वापि यान्ति विनायकाः ॥ १ ॥" तस्मादशेषप्रत्यूहोपशमनाय मङ्गलमभिधेयं, तच्चादिमध्यावसानभेदात्रिधा, तत्रादिमङ्गलं 'सुयं मे आउसंतेणं भगवया एवमक्खाय' मित्यादि, अत्र च भगवद्वचनानुवादो मङ्गलम्, अथवा श्रुतमिति श्रुतज्ञानं तच्च नन्द्यन्तःपातित्वान्मङ्गलमिति, एतच्चाविघ्नेनाभिलषितशास्त्रार्थपारगमनकारणं, मध्यमङ्गलं लोकसाराध्ययनपञ्च मोद्देशकसूत्रं ' से जहा केवि हरए पडिपुण्णे चिट्ठा समंसि भोम्मे उवसन्तरए सारक्खमाणे' इत्यादि, अत्र च इदगुणैराचार्य्यगुणोत्कीर्त्तनम्, आचार्याश्च पश्ञ्चनमस्का - ॐ॥ १ ॥ १ चरणप्रतिपत्तिहेतवो येनेतरे त्रयोऽनुयोगाः । चरणप्रतिपत्तिहेतवो धर्म कथाकालदीक्षादिकाः । द्रव्ये दर्शनशुद्धिर्दर्शनशुद्धस्य चरणं तु ॥ १ ॥ अध्ययनं १ उद्देशकः १
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy