________________
+40-5-25
शीतो० ३ उद्देशक:३
श्रीआचा
'न स्मरन्ति' न तदनुस्मृतिं कुर्वते, एके रागद्वेषविप्रमुक्ताः, तथाऽनागतदिव्याङ्गनाभोगमपि नाकाङ्कन्ति, किं च-अस्य राङ्गवृत्तिः
||जन्तोरतीतं सुखदुःखादि किं वाऽऽगमिष्यम्-आगामीत्येतदपि न स्मरन्ति, यदिवा कियान् कालोऽतिक्रान्तः किया(शी०)
नेष्यति, लोकोत्तरास्तु भाषन्ते-एके रागद्वेषरहिताः केवलिनश्चतुर्दशपूर्वविदो वा यदस्य जन्तोरनादिनिधनत्वात् काल
शरीरसुखाद्यतीतमागामिन्यपि तदेवेति, अपरे तु पठन्ति-"अवरेण पुव्वं किह से अतीतं, किह आगमिस्सं न सरंति ॥१६७॥ एगे। भासन्ति एगे इह माणवाओ, जह स अईअं तह आगमिस्सं ॥१॥" अपरेण-जन्मादिना सार्द्ध पूर्वम्-अति
क्रान्तं जन्मादि न स्मरन्ति, 'कथं वा' केन वा प्रकारेणातीतं सुखदुःखादि, कथं चैष्यमित्येतदपि न स्मरन्ति, एके भाषन्ते-किमत्र ज्ञेयं ?, यथैवास्य रागद्वेषमोहसमुत्थैः कर्मभिर्बश्यमानस्य जन्तोस्तद्विपाकांश्चानुभवतः संसारस्य यदतिक्रान्तमागाम्यपि तत्प्रकारमेवेति, यदिवा प्रमादविषयकषायादिना कर्माण्युपचित्येष्टानिष्टविषयाननुभवतः सर्वज्ञवाक्सुधास्वादासंविदो यथा संसारोऽतिक्रान्तस्तथागाम्यपि यास्यति, ये तु पुनः संसारार्णवतीरभाजस्ते पूर्वोत्त. रवेदिन इत्येतद्दर्शयितुमाह-'नाईय' मित्यादि, तथैव-अपुनरावृत्त्या गतं-गमनं येषां ते तथागताः-सिद्धाः, यदिवा यथैव ज्ञेयं तथैव गतं-ज्ञानं येषां ते तथागताः सर्वज्ञाः, ते तु नातीतमर्थमनागतरूपतयैव नियच्छन्ति-अवधारयन्ति नाप्यनागतमतिक्रान्तरूपतयैव, विचित्रत्वात् परिणतः, पुनरर्थग्रहणं पर्यायरूपार्थ, द्रव्यार्थतया त्वेकत्वमेवेति, यदिवा नातीतमर्थ विषयभोगादिकं नाप्यनागतं दिव्याङ्गनासङ्गादिकं स्मरन्त्यभिलपन्ति वा, के ?, तथागताः-रागद्वेषाभावात् पुनरावृत्तिरहिताः, तुशब्दो विशेषमाह, यथा मोहोदयादेके पूर्वमागामि वाऽभिलपन्ति, सर्वज्ञास्तु नैवमिति । तन्मा
॥ १६७॥