________________
तदेवमागतिगतिपरिज्ञानाद्रागद्वेषपरित्यागस्तदभावाच्च छेदनादिसंसारदुःखाभावः। अपरे च साम्प्रतक्षिणः कुतो वयमागताः? व यास्यामः? किं वा तत्र नः सम्पत्स्यते?, नैवं भावयन्त्यतः संसारभ्रमणपात्रतामनुभवन्तीति दर्शयितुमाह
अवरेण पुच्विं न सरंति एगे, किमस्स तीयं किं वाऽऽगमिस्सं । भासंति एगे इह माणवाओ, जमस्स तीयं तमागमिस्सं ॥१॥ नाईयमटुं न य आगमिस्सं, अटुं नियच्छन्ति
तहागया उ। विहुयकप्पे एयाणुपस्सी, निज्झोसइत्ता खवगे महेसी ॥२॥ रूपकं, 'अपरेण' पश्चात्कालभाविना सह पूर्वमतिकान्तं न स्मरन्त्ये केऽन्ये मोहाज्ञानावृतबुद्धयो यथा किमस्य जन्तोनरकादिभवोद्भूतं वालकुमारादिवयोपचितं वा दुःखाद्यतीतं किं वाऽऽगमिष्यति आगामिनि काले किमस्य सुखाभिलाषिणो दुःखद्विषो भावीति, यदि पुनरतीतागामिपर्यालोचनं स्यान्न तर्हि संसाररतिः स्यादिति, उक्तं च-"केण ममेत्थुप्पत्ती कहं इओ तह पुणोऽवि गंतव्वं? । जो एत्तियपि चिंतइ इत्थं सो को न निधिण्णो-१ ॥१॥" एके पुनमहामिथ्याज्ञानिनो भाषन्ते-'इह' अस्मिन् संसारे मनुष्यलोके वा मानवा-मनुष्या यथा यदस्य जन्तोरतीतं स्त्रीपूनपुंसकसुभगदुर्भगश्वगोमायुब्राह्मणक्षत्रियविट्शूद्रादिभेदावेशात् पुनरप्यन्यजन्मानुभूतं तदेवागमिष्यम्-आगामीति, यदिवा न विद्यते परः-प्रधानोऽस्मादित्यपरः-संयमस्तेन वासितचित्ताः सन्तः 'पूर्व' पूर्वानुभूतं विषयसुखोपभोगादि
१ केन ममात्रोत्पतिः केतः तथा पुनरपि गन्तव्यम् । य इयदपि चिन्तयति अत्र स कः न निर्विण्णः॥१॥