________________
समयं तत्थुवेहाए अप्पाणं विप्पसायए-अणन्नपरमं नाणी, नो पमाए कयाइवि। आयगुत्ते सया वीरे, जायामायाइ जावए ॥ १॥ विरागं रुवेहिं गच्छिज्जा महया खुडएहि य, आगइं गई परिणाय दोहिवि अंतेहिं अदिस्समाणेहिं से न छिज्जइ न भिजइ न डज्झइ न हमइ कंचणं सव्वलोए (सू० ११६) समभावः समता तां तत्रोत्प्रेक्ष्य-पर्यालोच्य समताव्यवस्थितो यद्यत्करोति येन केनचित्प्रकारेणानेषणीयपरिहरणं लज्जादिना जनविदितं चोपवासादि तत्सर्वं मुनिभावकारणमिति, यदिवा समयम्-आगमं तत्रोत्प्रेक्ष्य यदागमोक्तविधिनानुष्ठानं तत्सर्व मुनिभावकारणमिति भावार्थः, तेन चागमोत्प्रेक्षणेन समतोत्प्रेक्षया वाऽऽत्मानं 'विप्रसादयेद् विविधं प्रसादयेदागमपर्यालोचनेन समतादृष्टया वा आत्मानं विविधैरुपायैरिन्द्रियप्रणिधानाप्रमादादिभिः प्रसन्नं विदध्याद् । आत्मप्रसन्नता च संयमस्थस्य भवति, तत्राप्रमादवता भाव्यमित्याह च–'अणण्णपरम मित्याद्यनुष्टुप् , न विद्यतेऽन्यः परमः-प्रधानोऽस्मादित्यनन्यपरमः-संयमस्तं 'ज्ञानी' परमार्थवित् 'नो प्रमादयेत्' तस्य प्रमादं न कुर्यात्कदाचिदपि, यथा चाप्रमादवत्ता भवति तथा दर्शयितुमाह-आयगुत्ते' इत्यादि, इन्द्रियनोइन्द्रियात्मना गुप्तः आत्मगुप्तः 'सदा' सर्वकालं यात्रा-संयमयात्रा तस्यां मात्रा यात्रामात्रा, मात्रा च 'अच्चाहारो न सहे' इत्यादि, तयाऽऽत्मानं यापयेद्यथा विषयानुदीरणेन दीर्घकालं संयमाधारदेहप्रतिपालनं भवति तथा कुर्यादित्युक्तं भवति, उक्तं च-"आहारार्थ कर्म कुर्यादनिन्द्यं,