________________
श्रीआचा- यैर्यातयेत् विघातयेदिति, यद्यपि कांश्चित् स्थूलान् सत्त्वान् स्वयं पाषण्डिनो न घ्नन्ति तथाऽप्यौदेशिकसन्निध्यादिपरिभो- | शीतो०३ राङ्गवृत्तिः गानुमतेरपरैर्घातयन्ति । न चैकान्तेन पापकर्माकरणमात्रतया श्रमणो भवतीति दर्शयति-'जमिण' मित्यादि, यदिदं
यदेतत् पापकर्माकरणताकारणं, किं तद् ?, दर्शयति-अन्योऽन्यस्य परस्परं या विचिकित्सा-आशङ्का परस्परतो भयं (शी०)
उद्देशका ३ द लज्जा वा तया तां वा प्रत्युपेक्ष्य परस्पराशङ्कयाऽपेक्षया वा पापं-पापोपादानं कर्मानुष्ठानं 'न करोति' न विधत्ते, किं ॥१६५॥
प्रश्ने क्षेपे वा, 'तत्र' तस्मिन् पापकर्माकरणे किं मुनिः कारणं स्यात्?, किं मुनिरितिकृत्वा पापकर्म न करोति ?, काका | पृच्छति, यदिवा यदि नामासौ यथोक्कनिमित्तात्सापानुष्ठान विधायी न सञ्जज्ञे किमेतावतैव मुनिरसौ ?, नैव मुनिरित्यर्थः, अद्रोहाध्यवसायो हि मुनिभावकारणं, स च तत्र न विद्यते, अपरोपाध्यादेशात् , विनेयो वा पृच्छति-यदिदं परस्पराशङ्कया
आधाकादिपरिहरणं तन्मुनिभावाङ्गतां यात्याहोस्विन्नेति?, आचार्य आह-सौम्य ! निरस्तापरव्यापारः शृणु-'जमिण'४ मित्यादि, अपरोपाधिनिरस्त हेयव्यापारत्वमेव मुनिभावकारणमिति भावार्थः, यतः शुभान्तःकरणपरिणामव्यापारापादितक्रियस्य मुनिभावो नान्यथेति, अयं तावन्निश्चयनयाभिप्रायो व्यवहाराभिप्रायेण तूच्यते-यो हि सम्यग्दृष्टिरुत्क्षिप्तपञ्चमहाव्रतभारस्तद्वहने प्रमाद्यन्नप्यपरसमानसाधुलज्जया गुह्यद्याराध्यभयेन गौरवेण वा केनिचिदाधाकादि परिहरन् प्रत्युपेक्षणादिकाः क्रियाः करोति, यदि च तीर्थोद्भासनाय मासक्षपणातापनादिका जनविज्ञाताः क्रियाः करोति, तत्र तस्य मुनिभाव एव कारणं, तद्व्यापारापादितपारम्पर्यशुभाध्यवसायोपपत्तेः ॥ तदेवं शुभान्तःकरणब्यापारविकलस्य मुनित्वे | Cl॥१६५॥ सदसद्भावः प्रदर्शितः, कथं तहिं नैश्चयिको मुनिभाव इत्यत आह-:.