________________
शीतो०३
श्रीआचाराङ्गवृत्तिः (शी०)
व उद्देशकः २
॥१६४॥
लोभाभिभूताः सप्तमपृथिवीभाजो भवन्तीति भावार्थः । यद्येवं ततः किं कर्त्तव्यमित्याह-'तम्हा' इत्यादि, यस्मालोभाभिभूताः प्राणिवधादिप्रवृत्तितया महानरकभाजो भवन्ति, तस्माद्वीरो लोभहेतोः-वधाद्विरतः स्यात्, किं च'छिंदिज' इत्यादि, शोकं भावोतो वा छिन्द्यात्-अपनयेत्, किम्भूतो?-लघुभूतो-मोक्षः संयमो वा तं गन्तुं शीलमस्येति लघुभूतगामी, लघुभूतं वा कामयितुं शीलमस्येति लघुभूतकामी, पुनरप्युपदेशदानायाह-गन्ध' मित्यादि, 'ग्रन्थं वाह्याभ्यन्तरभेदभिन्नं ज्ञपरिज्ञया परिज्ञाय इहाद्यैव कालानतिपातेन धीरः सन् प्रत्याख्यानपरिज्ञया परित्य|जेत् , किं च-'सोय' मित्यादि, विषयाभिष्वङ्गः संसारश्रोतस्तत् ज्ञात्वा दान्त इन्द्रियनोइन्द्रियदमेन संयमं चरेदिति, किमभिसन्धाय संयमं चरेदित्याह-'उम्मज लद्भु'मित्यादि, इह मिथ्यात्वादिशैवलाच्छादितसंसारहदे जीवकच्छपः श्रुतिश्रद्धासंयमवीर्यरूपमुन्मजनमासाद्य-लब्ध्वा, अन्यत्र सम्पूर्णमोक्षमार्गासम्भवात् मानुष्येष्वित्युक्तं, क्त्वाप्रत्ययस्योत्तरक्रियासव्यपेक्षत्वादुत्तरक्रियामाह-'नो पाणिण' मित्यादि, प्राणा विद्यन्ते येषां ते प्राणिनस्तेषां प्राणान्-पञ्चेन्द्रियत्रिविधबलोच्छासनिश्वासायुष्कलक्षणान् 'नो समारभेथाः' न व्यपरोपयेः, तदुपघातकार्यनुष्ठानं मा कृधा इत्युक्तं भवति, इतिः परिसमाप्तौ, ब्रवीमीति पूर्ववत् । शीतोष्णीयाध्ययने द्वितीयोद्देशकटीका समाप्तेति ।
उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोदेशके दुःखं तत्सहनं च प्रतिपादितं, न च तत्सहनेनैव संयमानुष्ठानरहितेन पापाकम्माकरणतया वा श्रमणो भवतीत्येतत् प्रागुद्देशार्थाधिकारनिर्दिष्टमुच्यते, ततोऽनेन सम्बन्धेनायातस्यास्योद्देशकस्य सूत्रानुगमे सूत्रमुचारयितव्यं, तच्चेदम्
॥१६४॥