________________
भावयेच्च यथैते विषयाः किम्पाकफलोपमास्त्रपुषीफलनिबन्धनकटवः, अतस्तदर्थे परिग्रहाग्रहयोगपराङ्मुखो भवेदिति, उत्तमधर्मपालनार्थमाह-'अणोम' इत्यादि, अवम-हीनं मिथ्यादर्शनाविरत्यादि तद्विपर्यस्तमनवमं तद्रष्टुं शीलमस्येत्यनवमदशी सम्यद्गर्शनज्ञानचारित्रवान् , एवम्भूतः सन् प्रजानुगां नन्दि निर्विन्दस्वेति सण्टङ्कः । यश्चानवमसंदर्शी स किम्भूतो भवतीत्याह-निसन्न' इत्यादि, पापोपादानेभ्यः कर्मभ्यो निषण्णो-निर्विण्णः पापकर्मभ्यः पापकर्मसु वा कर्त्तव्येषु निवृत्त इतियावत् ॥ किं च
कोहाइमाणं हणिया य वीरे, लोभस्स पासे निरयं महंतं । तम्हा य वीरे विरए वहाओ, किंदिज सोयं लहभूयगामी ॥१॥ गंथं परिणाय इहाज! धीरे. सोयं परिण्णाय चरिज दंते । उम्मज लद्धं इह माणवेहिं, नो पाणिणं पाणे समारभिज्जा ॥२॥
सि तिबेमि । द्वितीय उद्देशकः ३-२॥ ___ क्रोध आदिर्येषां ते क्रोधादयः मीयते-परिच्छिद्यतेऽनेनेति मान-स्वलक्षणं अनन्तानुबन्ध्यादिविशेषः, क्रोधादीनां मानं क्रोधादिमानं, क्रोधादिर्वा यो मानो-गर्वः क्रोधकारणस्तं हन्यात् , कोऽसौ? वीरः, द्वेषापनोदमुक्त्वा रागापनोदार्थमाह -'लोहस्स' इत्यादि, लोभस्यानन्तानुबन्ध्यादेश्चतुर्विधस्यापि स्थितिं विपाकं च पश्य, स्थितिमहती सूक्ष्मसम्परायानुयायित्वाद् विपाकोऽप्यप्रतिष्ठानादिनरकापत्तेमहान् , यत आगमः-"मच्छा मणुआ य सत्तमि पुढविं" ते च महा