SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ श्रीआचारावृत्तिः (शी.) शीतो०३ उद्देशकः१ ॥१५७॥ मायाक्षये सत्येको लोभः १५, तत्क्षये च मोहनीयासत्तेति । आयुषो द्वे सत्कर्मतास्थाने सामान्येन, तद्यथा-परभवायुष्कबन्धोत्तरकालमायुष्कद्वयमेकं १, द्वितीयं तु तद्वन्धाभाव इति । नाम्नो द्वादश सत्कर्मतास्थानानि, तद्यथा-त्रिनवतिः १ द्विनवतिः २ एकोननवतिः ३ अष्टाशीतिः ४ षडशीतिः ५ अशीतिः ६ एकोनाशीतिः ७ अष्टसप्ततिः ८ षट्सप्ततिः ९ पञ्चसप्ततिः १० नव ११ अष्टौ १२ चेति, तत्र त्रिनवतिः-गतयश्चतस्रः ४ पञ्च जातयः ५ पञ्च शरीराणि ५ पञ्च सङ्घाताः ५ बन्धनानि पञ्च ५ संस्थानानि षट् ६ अङ्गोपाङ्गत्रयं ३ संहननानि षट् ६ वर्णपञ्चक ५ गन्धद्वयं २ रसाः पञ्च ५ अष्टौ स्पर्शा ८ आनुपूर्वीचतुष्टयं ४ अगुरुलघूपघातपराघातोच्छासातपोद्योताः षटू ६ प्रशस्तेतरविहायोगतिद्वयं २ प्रत्येकशरीरत्रसशुभसुभगसुस्वरसूक्ष्मपर्याप्तकस्थिरादेययशांसि सेतराणीति विंशतिः २० निर्माणं तीर्थकरत्वमित्येवं सर्वसमुदाये त्रिनवतिर्भवति ९३, तीर्थकरनामाभावे द्विनवतिः ९२, त्रिनवतेराहारकशरीरसङ्घातवन्धनाङ्गोपाङ्गचतुष्टयाभावे सत्येकोननवतिः ८९, ततोऽपि तीर्थकरनामाभावेऽष्टाशीतिः ८८, देवगतितदानुपूर्वीद्वयोद्वलने षडशीतिः ८६, यदिवा अशीतिसत्कर्मणो नरकंगतिप्रायोग्य बनतः तद्गत्यानुपूर्वीद्वयवैक्रियचतुष्कबन्धकस्य षडशीतिः, देवगतिप्रायोग्यबन्धकस्य वेति, ततो नरकगत्यानुपूर्वीद्वयवैक्रियचतुष्टयोदलनेऽशीतिः ८०, पुनर्मनुष्यगत्यानुपूर्वीद्वयोद्बलनेऽष्टसप्ततिः ७८, एतान्यक्षपकाणां सत्कर्मतास्थानानि । क्षपकश्रेण्यन्तर्गतानां तु प्रोच्यन्ते, तद्यथा-त्रिनवतेनेरकतियेग्गतितदानुपूर्वीद्वयैकद्वित्रिचतुरिन्द्रियजात्यातपोद्योतस्थावरसूक्ष्मसाधारणरूपैर्नरकतिर्यग्गतिप्रायोग्यैस्त्रयोदशभिः कर्मभिः क्षपितैरशीतिर्भवति, द्विनवतेस्त्वेभिस्त्रयोदशभिः क्षपितैरेकोनाशीतिः, याऽसावाहारकचतुष्टयापगमेनैकोननवतिः सञ्जाता ॥१५७॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy