________________
पकश्रेणिप्रक्रमेण मोहनीयक्षयं विधायान्तर्मुहूर्तमजघन्योत्कृष्टं कालं सप्तविधसत्कर्मा, ततः शेषघातित्रये क्षीणे चतुर्विध
भवोपनाहिसत्कर्मा जघन्यतोऽन्तर्मुहूर्त्तमुत्कृष्टतो देशानां पूर्वकोटिं यावत्, पुनरूद्धे पञ्चहस्वाक्षरोगिरणकालीयां शैले-80 लाश्यवस्थामनुभूयाका भवति । साम्प्रतमुत्तरप्रकृतीनां सदसत्कम्ताविधानमुच्यते-तत्र ज्ञानावरणीयान्तराययोः
प्रत्येकमुपात्तपञ्चभेदयोश्चतुर्दशस्वपि जीवस्थानकेषु गुणस्थानकेषु च मिथ्यादृष्टेरारभ्य केवलिगुणस्थानादारतोऽपरविक
ल्पाभावात् पञ्चविधसत्कर्मता । दर्शनावरणस्य त्रीणि सत्कर्मतास्थानानि, तद्यथा-नवविधं निद्रापञ्चकदर्शनचतुष्टयसदमन्वयाद् एतत् सर्वजीवस्थानानुयायि, गुणस्थानेष्वप्यनिवृत्तिबादरकालसख्येयभागान् यावत् १, ततः कतिचित्सड्
ख्येयभागावसाने स्त्यानर्द्धित्रयक्षयात् पट्सत्कर्मतास्थानं २, ततः क्षीणकषायद्विचरमसमये निद्राप्रचलाद्वयक्षयाच्चतुःसत्कर्मतास्थानं, तस्यापि क्षयः क्षीणकषायकालान्त इति ३ । वेदनीयस्य द्वे सत्कर्मतास्थाने, तद्यथा-द्वे अपि सातासाते इत्येकं, अन्यतरोदयारूढशैलेश्यवस्थेतरद्विचरमक्षणक्षये सति सातमसातं वा कम्र्मेति द्वितीयं २। मोहनीयस्य | पञ्चदश सत्कर्मतास्थानानि, तद्यथा-षोडश कषाया नव नोकषाया दर्शनत्रये सति सम्यग्दृष्टेरष्टाविंशतिः १, सम्यक्त्वोदलने सम्यमिथ्यादृष्टेः सप्तविंशतिः २, दर्शनद्वयोदलनेऽनादिमिथ्यादृष्टेर्वा षड्विंशतिः ३, सम्यग्दृष्टेरष्टाविंशतिसत्क-IX मणोऽनन्तानुबन्ध्युदलने क्षपणे वा चतुर्विंशतिः ४, मिथ्यात्वक्षये त्रयोविंशतिः ५, सम्यग्मिथ्यात्वक्षये द्वाविंशतिः ६, शायिकसम्यग्दृष्टेरेकविंशतिः ७, अप्रत्याख्यानप्रत्याख्यानावरणक्षये त्रयोदश ८, अन्यतरवेदक्षये द्वादश ९, द्वितीयवेदक्षये सत्येकादश १०, हास्यादिषटूक्षये पञ्च ११, पुवेदाभावे चत्वारि १२, सवलनक्रोधक्षये त्रयः १३, मानक्षये द्वौ १४,
ACRORNER
आ. सू. २